SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे मद्याइतोः चलितवेतनो नष्टचैतन्यः सन्, स्वमात्मानं, परं वा आत्मव्यतिरिक्तं, न जानाति । अत्र हेतुमाह-यत आत्मानमजानन् खं स्वामिनमिवाचरति, वराकश्चैतन्यहीनत्वादनुकम्पनीयः । परमजानन् स्वामिनं नाथं किङ्करमिवाचरति ॥ १० ॥ तथा मद्यपस्य शवस्यैव लुठितस्य चतुष्पथे । मूत्रयन्ति मुख पृवानो व्यात्ते विवरशङ्कया ॥११॥ स्पष्टः ॥ ११ ॥ तथा मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ १२॥ मद्यस्य पानं तत्र रस आसक्तिस्तत्र मग्नो निषण: ; मद्यपानव्यसनीत्यर्थः। अत एव वस्त्रमपि स्रस्तमजानन् नग्नः स्वपिति चत्वरे, नतु गृह एव। दोषान्तरं च, गूढं केनाप्यविदितं, खमभिप्राय राजद्रोहादिकं, प्रकाशयति प्रकटीकरोति, लीलया बन्धनताडनादिव्यतिरेकेणापि ॥ १२ ॥ तथावारुणीपानतो यान्ति कान्तिकीर्तिमतिश्रियः । विचित्राश्चित्ररचना विलुठत्कज्जलादिव ॥ १३ ॥ बारुणोपानतो मद्यपानात्, यान्त्यपगच्छन्ति, कान्ति: शरीर
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy