SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । ४६१ वेधा-माक्षिक, भ्रामरं, पौत्तिकं च। उदुम्बरपञ्चकादयो यथास्थानं व्याख्यास्यन्ते ॥ ६ ॥ ७ ॥ तत्र मद्यस्य वर्जनीयत्वहेतून् दोषान् श्लोकदशकेनाह मदिरापानमात्रेण बुद्धिनश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥८॥ वैदग्धीबन्धुरस्यापि छेकस्यापि पुंसो, मदिरापानमात्रेण बुद्धिर्नश्यति क्षयं याति, दूरतो दूरं यावत् । सर्वथा विनश्यतीत्यर्थः । अत्रोपमानं दौर्भाग्येणेव कामिनीति । वैदग्धीबन्धुरस्यापि दूरत इति चात्रापि सम्बध्यते । तेन यथा विदग्धस्यापि दौर्भाग्यदोषण कामिनी नश्यति पलायते, दूरतो दूरादपि ॥ ८ ॥ तथापापाः कादम्बरीपानविवशीकृतचेतसः । जननौं हा प्रियौयन्ति जननीयन्ति च प्रियाम् ॥६॥ कादम्बरी मदिरा, जननी मातरं, हा इति खेदे, प्रियोयन्ति प्रियामिब जायामिवाचरन्ति, प्रियां च जननीयन्ति जननीमिवाचरन्ति । मदिरामदविह्वलत्वाज्जननीजाययोराचारव्यत्ययेन व्यवहरन्तीत्यर्थः ॥ ८॥ तथान जानाति परं खं वा मद्याच्चलितचेतनः । खामौयति वराकः खं खामिनं किङ्करीयति ॥ १० ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy