SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ तथा द्वितीयः प्रकाशः । 'जं पि वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलज्जट्ठा धारंति परिहरति ॥ १ ॥ 'न सो परिग्गहो वृत्तो नायपुत्तेण ताइण । मुच्छा परिग्गहो वृत्तो इइ वृत्तं महेसिणा ॥ २ ॥ इति सर्वमवदातम् ॥ १०६॥ प्रकारान्तरेण परिग्रहनियन्त्रणमाह परिग्रहमहत्त्वादि मज्जत्येव भवाम्बुधौ । महापोत इव प्राणौ त्यजेत्तस्मात् परिग्रहम् ॥१०७॥ यदाहु: परिग्टह्यत इति परिग्रहो धनधान्यादिस्तस्य महत्त्वं निरवधित्वं तस्माद्धेतोः मज्जत्येव, अवश्यमेव मज्जति, प्राणी शरीरी, भवे संसारे, क इव क्क, अम्बुधौ समुद्रे महापोत इव महायानपात्रमिव, यथा निरवधिधनधान्यादिभाराक्रान्तः पोतः समुद्रे मज्जति, तथैवापरिमितपरिग्रहः प्राणी नरकादौ निमज्जति । ४१५ (१) यदपि वखं वा पालं वा कम्बलं वा पादप्रोञ्छनम् । तदपि संयम लज्जार्थं धारयन्ति परिभुञ्जते च ॥ १ ॥ (२) न स परियह उक्तः ज्ञातपुत्रेण तायिना । मूर्च्छा परिग्रह उक्तः इत्युक्तं महर्षिणा ॥ २ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy