SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे मूर्च्छापरिगतश्चारम्भं प्राणातिपातादिकं प्रतिपद्यते । ४ १४ तथाहि तनयः पितरं पिता च तनयं भ्राता च भ्रातरं हिनस्ति, गृहीतलञ्चश्च कूटसाचित्वदायी बह्वनृतं भाषते, बलप्रकर्षात्पथिकजनं मुणाति, खनति खावं, गृह्णाति विन्दं, धनलोभात् परदारानभिगच्छति, तथा सेवाक्कषिपाशुपाल्यवाणिज्यादि च करोति । मम्प्रणवणिगिंव नद्यादिषु प्रविश्य काष्ठान्याकर्षति । ननु दुःखकारणं मूर्च्छाफलं ज्ञात्वा परिग्रहनियन्त्रणं कुर्यादिति कयं वाचो युक्तिः । उक्तमत्र । मूर्च्छाकारणत्वात् परिग्रहोऽपि मूर्च्छव अथवा “मूर्च्छा परिग्रहः” इति सूत्रकारवचनात् मूर्च्छव परिग्रह इति निश्चयनयमतेनोच्यते, मूर्च्छामन्तरेण धनधान्यादेरपरि ; ग्रहत्वात् । यदाह- अपरिग्रह एव भवेद्दस्त्राभरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहित: 'सति ममकारे 'सङ्गवान्नग्नः ॥ १ ॥ तथा - ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥ १ ॥ ( १ ) ख च सन् । (2) ड सङ्गवान्न ? सः ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy