SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ५७२ योगशास्त्रे गृह्यते तद्दलतैलं तस्य कृतिविधानमिति, यन्त्रपीडा यन्त्रपीडनं यन्त्रपौडाकर्मणश्च पौडनीयतिलादिक्षोदात्तहतत्रसजीव. वधाच्च सदोषत्वम् । लौकिका अपि ह्याचक्षते-दशसूनासमं चक्रमिति ॥ १११ ॥ अथ निर्लाञ्छनकर्माह-- नासावधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम्। . कर्णकम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ॥११२॥ नितरां लाञ्छनमगावयवच्छेदः, तेन कर्म जीविका निर्लाञ्छनकर्म । त दानाह-नासावेधो गोमहिषादीनाम्, अशनं गवाखादीनां चिह्नकरणं, मुष्कोऽण्डस्तस्य च्छेदनं वर्धितकीकरणं गवाखादीनामेव, पृष्ठगालनं करभाणां, गवां च कर्णकम्बलविच्छेदः । एषु जन्तुबाधा व्यक्तव ॥ ११२॥ अथासतीपोषणमाहसारिकाशुकमार्जारश्वकुकुंटकलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥११३॥ असत्यो दुःशौलास्तासां पोषणं, लिङ्गमतन्त्रम्, शुकादीनां पुंसामपि पोषणमसतीपोषणं, सारिका व्यक्तवाक् पक्षिविशेषः, शुकः कौरः, मार्जारो बिडाल:, खा कुक्कुरः, कुक्कुटस्ताम्रचूडः, कलापी मयूरः, एतेषां तिरवां पोष: पोषणं, दास्याश्च पोष इति वर्तते, स च भाटीग्रहणार्थमसतीपोषः । एषां च दुःशौलानां पोषणं पापहेतुरेव ॥ ११३ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy