SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । ५७१ विक्रयो दन्तवाणिज्यमिति विवेकः। रसकेशयोरिति यथासंख्येन योगः । दोषास्तु नवनीते जन्तुसंमूर्च्छनं, वसाक्षौद्रयो. जन्तुघातोद्भवत्वं, मद्यस्य मदनजननं तगतकमिविघातश्चेति ; हिपाच्चतुष्पादिक्रये तु तेषां पारवश्यं वधबन्धादयः क्षुत्पिपासापीडा चेति ॥ १० ॥ अथ विषवाणिज्यमाह विषास्त्रहलयन्वायोहरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥११॥ विषं शृङ्गिकादि तच्चोपलक्षणं जीवघातहेतूनामस्त्रादीनाम् । तान्येवाह-अस्त्रं खगादि, हलं लागलं, यन्त्रमरघट्टादि, अयः कुशीकुद्दालादिरूपं, हरितालं वर्णकविशेषः । अादिशब्दादन्येषामुपविषाणां ग्रहणम् । एवमादिवस्तुनो विक्रयो विषवाणिज्य विषादेविशेषणं जीवितघ्नस्य अमीषां जीवितघ्नत्वं प्रसिद्धमेव ॥ ११०॥ अथ यन्त्रपीडाकर्माहतिलेक्षुसर्षपैरण्डजलयन्वादिपीडनम् । दलतैलस्य च कृतिर्यन्वपीडा प्रकीर्तिता ॥१११॥ यन्त्रशब्दः प्रत्येकम भिसम्बध्यते । तिलयन्त्रं तिलपीलनोपकरणम्, इक्षुयन्त्र को कादि, सर्षपैरण्डयन्त्रे तत्पीलनोपकरणे, जलयन्त्रमरघट्टादि, दलतैलं यत्र दलं तिलादि दीयते सेलं च प्रति
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy