SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ४०४ योगशास्त्रे कोऽपि नास्य प्रतीकारस्तथाप्येष भविष्यति । निश्चित्येति प्रविश्यान्तर्जिनाचः साऽर्चयत्ततः ॥ ६० ॥ कायोत्सर्गेण च स्थित्वा सोचे शासनदेवताः । भगवत्यो मम पत्युर्दोषसम्भावनाऽपि न ॥ ६१ ॥ परमश्रावकस्यास्य सान्निध्यं चेत्करिष्यथ । तदाऽहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥ ६२ ॥ अन्यथैवंस्थिताया मे भवत्वनशनं ध्रुवम् । धर्मध्वंसे पतिध्वंसे॒ किं जीवन्ति कुलस्त्रियः १ ॥ ६३ ॥ इतश्च न्यधुरारक्षाः शूलिकायां सुदर्शनम् । अलङ्घनीया भृत्यानां राजाज्ञा हि भयङ्करा ॥ ६४ ॥ स्वर्णानासनतां भेजे शूलाऽप्यस्य महात्मनः । देवतानां प्रभावेन यमदंष्ट्राऽपि कुण्ठति ॥ ६५ ॥ वधाय तस्य चारचैर्दृढं व्यापारितः शितः । करवालोऽपतत्कण्ठे पुष्पमाला च सोऽभवत् ॥ ६६ ॥ तद्दृष्ट्वा चकितैरेत्य विज्ञप्तस्तैर्महीपतिः । आरुह्य हस्तिनौं वेगाद्ययावधिसुदर्शनम् ॥ ६७ ॥ तमालिङ्ग्य महोपालोऽनुतापादित्यवोचत । श्रेष्ठिनहि विनष्टोऽसि दियाऽऽत्मीयप्रभावतः ॥ ६८ ॥ मया हि तावत्पापेन किं राज्ञाऽसि विनाशितः । नाथः सतामनाथानां धर्मो जागर्त्ति सर्वथा ॥ ६८ ॥ स्त्रीणां मायाप्रधानानां प्रत्ययात्त्वां निहन्ति यः । अविमृश्यकरः पापो नापरो दधिवाहनात् ॥ ७० ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy