SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रकाश:। इत्यादिदेश स क्रोधात्सकलेऽप्यत्र पत्तने । दोषप्रख्यापनां कृत्वा पाप एष निग्राह्यताम् ॥ ५१ ॥ आरक्षपुरुषैःणि स कृत्वोत्याटितस्ततः । वचसा सिद्धयो राज्ञां मनमेव दिवौकसाम् । ५२ ॥ स मण्डितो मुखे मष्या शरीर रक्तचन्दनैः । करवीरस्रजा मुण्डे कण्ठे 'कोशकमालया ॥ ५३ ॥ खरमारोप्य विकृतसूर्पच्छनः स तैस्ततः । वाद्यमानेनानकेनारेभे भ्रमयितुं पुरे । ५४ ॥ कतापराधः शुद्धान्ते बध्यतेऽसौ सुदर्शनः । नात्रदोषो नृपस्येति चक्रुराघोषणां च ते ॥ ५५ ॥ न युक्तं सर्वथाऽप्येतनेह सम्भवतीदृशम् । इति लोकप्रघोषोऽभूट् हाहारवयुतस्ततः ॥ ५६ ॥ एवं च भ्रम्यमाणोऽगाद् हारदेश स्ववेश्मनः । अदृश्यत महासत्या स मनोरमयाऽपि च ॥ ५७ ॥ चिन्तयामास सा चैवं सदाचारः पतिर्मम । भूपतिश्च प्रियाचारो दुराचारो विधिर्धवम् ॥ ५८ ॥ इदमप्यसदथवा ध्रुवमस्य महात्मनः । उपस्थितं फलमिदं प्राक्तनाशुभकर्मण: ॥ ५८ । (१) क कौशिकमालया। (२) ड विकृतसूर्यच्छत्रशतैस्ततः । ख वितः सूर्पच्छवशतैस्ततः ।। .. च वितः सूपैलवशतैस्ततः ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy