SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 10 20 २६८ 25 5 इति । पार्थिवमेव शरीरम् तदत्र किं तत्त्वम् ? पार्थिवमेवास्मदादिशरीरमिति, विजातीयकार्यस्थावयविनोऽनुपपत्तेः, पार्थिवावयवसमवेतशरीरावयवग्राहिणश्चाभेदप्रत्ययस्य " तृणपर्णपाषाणमूलकाद्यभेदप्रत्ययवदपवादासम्भवात् । न च वयमिह भूतान्तराणां कारणभावनिषेधं विद्मः केवलपार्थिवतया निर्विवाद सिद्धेऽपि कुम्भादावम्भःप्रभृतीनां कारणत्वानपायात् तद्व्यतिरेकेण घटादेर्घटयितुमशक्यत्वात् । किन्तु घट इव शरीरेऽपि समवायिकारणतां पृथिव्यवयवानामेवाचक्ष्महे तदाश्रितत्वस्यास्य प्रत्यक्षेण ग्रहात् सहकारिकारणत्वानुप्रविष्टभूतान्तरसम्बन्धनिबन्धनस्ततः सिद्धः क्लेदोष्मव्यूहावकाशसम्प्रत्ययः, तत्पथागमपठितेषु वरुणलोकादौ 15 केवलजलादिजन्येषु सहकारित्वानुप्रविष्टपार्थिवावयवावष्टम्भवशेन स्थैर्याद्युपलम्भ इति । तस्मादस्मदादिशरीरं पार्थिवम् । न्यायमञ्जय पवनकार्यस्य तत्रावधारणादिति । अवनिवनदहनपवनगगनविनिर्मितमिति चापरे, गन्धादिवदवकाशस्याप्याकाशकार्यस्य तत्र दर्शनात् । सुषिरं हि शरीरमुपलभ्यते अवकाशे चाकाशैकदेशेऽप्यवच्छेदाभिप्रायेण श्रोत्रवद् भक्तया तत्कार्यत्वव्यपदेश [ अष्टमम् नोपचर्यते । , वेदे च तथैव व्यवहारो दृश्यते, अग्नीषोमीयादिपशोः प्रलयकाले, यजमानस्य वा प्रेतस्य पात्रचयनकर्मणि 'सूर्यं चक्षुर्गमयतात्' इत्याद्युपक्रम्य 'पृथिवीं ते शरीरम्' इति पठ्यते तच्च प्रकृतिगामित्ववचनम्, यद् यतः प्रकृतेरुत्थितं तत् तस्यामेवास्य लीयतामित्यर्थः । तत्र यथा तैजसं चक्षुरिति सूर्याख्ये तेजसि उद्गमनमुपदिष्टमेवं पृथिव्यां शरीरस्येति । तस्मात् पृथिव्यवयवैरयमस्मदादिदेहो निबद्ध इति नात्र सतां विवादः । अवच्छेदाभिप्रायेणेति । विशिष्टरचनावच्छिन्न आकाशदेश एवाकाशकार्यत्वे तच्च प्रकृतिगामित्ववचनमिति । 'सूर्यं ते चक्षुर्गमयतात्' इत्यादिकम् ।
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy