SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २६७ आह्निकम् ] प्रमेयप्रकरणम् लक्षणमपि तदतिव्यापकम्, रूपरसादिसमवायस्य वृक्षादावपि भावात् । तस्मात् तदर्थाश्रयत्वमीदृशमत्र विवक्षितम्, यदेते वरवनितादिशरीरवर्तिनः, प्रविकचमुचुकुन्दकुन्दकन्दलकमलादिबाह्यविषयसमवायिनश्च रूपरसादयोऽर्था रमणीयतामादधाना रागवृद्विहेतवो भवन्ति भोक्तुरात्मनः शरीरे सति, न शरीररहितस्य, इत्यर्थानां भोगसाधनभावादाश्रयः शरीरमतः सूष्ठूक्तं चेष्टेन्द्रियार्था- 5 श्रयः शरीरमिति । तदित्थं भोगायतनत्वेन बन्धहेतुत्वाद्धेयमित्यर्थः । शरीरपरीक्षाप्रयोजनवर्णनम् तदिदानीमस्मदादिशरीरं किं पार्थिवमेव, किं वा नानाभूतनिर्मितमिति परीक्ष्यते । ननु किमनया परीक्षया प्रयोजनम् ? निःश्रेयसोपयोगो हि यः शरीरस्य दर्शितः । नानकप्रकृतित्वे हि न स तस्य विशिष्यते ।। मैवं वोचः, प्रतिपन्नस्वरूपस्य चिन्त्याकारोपयोगिता। . कार्यः कार्यार्थिनाप्यादौ यत्नस्तद्रूपनिर्णये ॥ तथा चेन्द्रियाणि भौतिकत्वाहङ्कारिकत्वविवेकेन परीक्षिष्यन्ते । अर्था ।। अपि कति किंगुणा इति। बुद्धिरपि किं प्रधानस्य प्रथमो विकारो महच्छब्दवाच्य उतात्मन एव धर्मो ज्ञानाख्यः क्षणिक इत्येवं द्रष्टव्यम् । तत्र विप्रतिपत्तयः तत्र पार्थिवमेवास्मदादिशरीरमिति केचित्, साधारणो हि धरणिधर्मो गन्धस्तस्मिन्नुपलभ्यत इति । - 20 पृथिव्युदककारणमित्यन्ये, क्लेदस्यापि तस्मिन् दर्शनात्, असति हि सलिलसंसर्गे न पार्थिवाः क्लेदमनुभवन्तीति । क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलम्भादिति । वसुमतीसलिलसितेतरसरणिसमीरणरचितमिति चान्ये, रचनाविशेषस्य 25 सितेतरसरणिः अग्निः।
SR No.002346
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1983
Total Pages384
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy