SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । एतस्य विजयप्रशस्तिनान्नो महाकाव्यस्य विनिर्मातॄणां कविमतल्लिकानां श्रीहेमविजयगणीनां सत्तासमयः सप्तदशशताब्दीरूपः, इति तैरेव स्वविरचितेषु प्रन्थेषूपनिबद्धैस्तैस्तैरुल्लेखैः सुस्पष्टं निष्टङ्कयते, तथाहि श्रीपार्श्वनाथचरितमहाकाव्ये " तस्याऽणुके निखिलशिष्य भुजिष्यरेखा यस्मिन् समस्ति गणितेव विशारदेन्दोः । श्रीपार्श्वनाथचरितं रचयाञ्चकार हर्षेण हेमविजयः शिवलक्ष्मिकाङ्क्षी ॥ इक्-कृशानु-रस-सोममितेऽब्दे शक्रमन्त्रिणि दिने द्वयसंज्ञे । हस्त च बहुलेतरपक्षे फाल्गुनस्य चरितं न्यरचीदम्” ॥ श्री ऋषभशतकप्रन्थेऽपि - “श्रीहीरहीरविजयव्रतिराजपट्टपद्मांशुमद्विजयसेनमुनीन्द्रराज्ये । श्रीस्तम्भतीर्थनगरे रस-बाण-भूप वर्षे समाप्तिमगमच्छतकं सदर्थम् " ॥ श्रीकथारत्नाकरे च “अहिमनगरद्वङ्गे वर्षेऽश्वे -पु-रसा ऽवनौ । मूलमार्तण्डसंयोगे चतुर्दश्यां शुचौ शुचेः " ॥ एभिः श्रीहेमविजयगणिभिः पार्श्वनाथमहाकाव्यम्, कथारलाकर, अन्योक्तिमुक्तामहोदधिः कीर्तिकल्लोलिनी, स्तुतित्रिदशतरङ्गिणी, सूक्तरत्नावली, कस्तूरीप्रकरः, सद्भावशतकम्, विजयस्तुतयः, इत्यादयबहवो विद्वत्तापरिपूर्णा प्रन्था विनिर्ममिरे, येषामन्यथाऽनुपपद्यमानतया ग्रन्थकर्तॄणां विशिष्टक्षयोपशमाविर्भूतो नैसर्गिकः, अन्यान्यविषयप्रन्यसन्दर्भविलोकनसहकृतश्च संस्कृतः प्रतिभाप्रकर्षो निःसंदिग्धमनुमीयते
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy