SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ द्वादशमाह्निकम् 695 काममर्थशून्यमपि कथयन्तः नोन्मत्ता भवितुमर्हन्ति । एवमन्यस्यापि प्रज्ञाप्रमादात् कचटतपादि व्याहरतो नोन्मत्तता ॥ यच्योक्तं-ईदृशां गणने का परिनिष्ठेति-तत् परिहृतमसकृत् असङकीर्णोदाहरणविवक्षया द्वाविंशतिभेदत्वमाश्रितमिति ॥ - कपोलवादनादीनि पुनः अकथास्वभावत्वादचिन्त्यान्येव । यस्य चास्मिन कथाप्रसङगे गण्डवादित्रादि चेतसि स्फुरति, तस्यान्यदतिजघन्यमपि हृदयमवतरेदित्यलं 'कश्मल गोष्ठ्येति || [अविज्ञातार्थम् ] पर्षप्रतिवादिभ्यां त्रिराभिहितमप्यविज्ञातमविज्ञातार्थम् ॥५-२-९॥ यत् साधनवार्य, दूषणवाक्यं वा त्रिरभिहितं पर्षदा प्रतिवादिना न विज्ञायते क्लिष्टशब्द प्रयोगम् , अप्रसिद्धप्र योगम् , अतिद्रु'तो'च्चरितमिन्येवंप्रकारमविज्ञातार्थ नाम निग्रहस्थानं भवति । असामर्थ्यसंवरणाय च धूर्तंरिदमाश्रीयते ॥ [निरर्थकाविज्ञातार्थयोर्विशेषः]. अत्राह-अर्थासंप्रत्ययस्य समानत्वात् कोऽस्य निरर्थकाद्धदः। अथ प्रकृतोपयोगयोग्यमर्थमसौ वदति, तदा पर्षत्प्रतिवादिनोरमेधाविता कामं भवेत् ; न तु विदुषः वक्तुं विवदतः पराजयो भवितुमर्हति ॥ किंकृतश्चैष त्रिरुच्चारणनियमः? कि राजाज्ञया, उत स्वाक्येन ? इति न विद्मः॥ * किन्तु भ्रान्ताः। भ्रान्तिः, उन्मादश्च नाविशेषः ॥ 1 असंबद्ध-ख. प्र-ख, ' तीब्रो-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy