________________
१ सर्गः ]
हीरसौभाग्यम् ।
कपालिमित्रं त्रिशिराः कुबेरः पिशाचकी पुण्यजनः पतिर्मे । तन्नाभिगम्यः किमितीत्वरीव त्यक्त्वा तमागादलकेयमुर्व्याम् ॥ ७३ ॥ यत्पुरं भातीति संबन्धः । किमुत्प्रेक्ष्यते - इयं प्रत्यक्षलक्ष्या अलका धनदपुरी उर्व्या भूमण्डले आगादायाता । किं कृत्वा । त्यक्त्वा मुक्त्वा । कम् । तं धनदपतिम् । केव । इत्वरीव । यथा पांशुला धनदमपि स्वकान्तं विहाय स्वाभिमतेऽन्यपुंसि रता परपृथिव्यामागच्छति । किमिति हेतोः । तं हेतुं दर्शयति यस्मान्मे मम पतिरेवंविधः कपालिनो रुद्रस्य रुण्डमालिनो योगिनो वा मित्रं सुहृत् एतावता भिक्षुकः । पुनः किंभूतः । त्रीणि शिरांसि मस्तकानि यस्य इति बीभत्सः । पुनः किंभूतः । कुत्सितं निकृष्टं बेरं शरीरं यस्येति कुरूपः । पिशाचाश्छलकारिणो देवविशेषा यस्येति छलावेशादिदोषभीतिः । पुनः किंभूतः ! पुण्यजनो राक्षसः इति क्रूरः । 'यक्षो नृधर्मधनदौ नरवाहनश्च' इति यक्षापराभिधानम्, तथा 'यक्षः पुण्यजनो राजा' इति द्वयमपि हैम्याम् । तत्त्वतस्तु सर्वाण्यपि धनदनामांनि । तत्तस्मात्कारणान्नाभिगम्यः न सेव्यः ॥
रामायुतैस्तार्क्ष्यशतै रमाभिः प्रद्युम्नकोट्या शतशूरवंशैः ।
२५
जितेन कृष्णेन पुरी स्वकीयोपदीकृतेयं किमु मण्डलस्य ॥ ७४ ॥ पुरं भातीति संबन्ध: । किमुत्प्रेक्ष्यते - कृष्णेन नारायणेन मण्डलस्य देशस्योपदीकृता ढौकिता इयं प्रह्लादनपुरलक्षणा स्वकीया पुरी द्वारकेत्र । किंभूतेन कृष्णेन । जितेनार्थाबुर्जरदेशेन । कैः । रामाणामयुतैः । अयुतं दशसहस्री स्यात् । बहुवचनत्वाल्लक्षसंख्यैः । रामो बलभद्र:, रामाः स्त्रियः । समासान्तपदे न कोऽपि भेदः । तार्क्ष्याणां शतैः शतसंख्यैः । उपलक्षणत्वात्वद्दंस्रलक्षसंख्यैः । तार्क्ष्यो गरुडो वाजी चं । पुनः काभिः । रमाभिर्विविधप्रकाराभिर्धनधान्यरूपाभिर्लक्ष्मीभि: संपद्भिः । पुनः कैः । प्रकृष्टानां न्यायमार्गोपार्जितानां बहुसंततिस्थायिनां वा द्युम्नानां द्रव्याणां कोट्या शतलक्ष्या । प्रद्युम्नो मदनः । पुनः कैः । शतसहस्रसंख्यैः शूराणां सुभटानां वंशैरन्वयैः कुलैः । शूरनामा यादवपूर्वजहरिवंश्यनृपः। कृष्णस्य तु एतत्सर्वेऽप्येकैका इति पराजयः ॥ इति समुदायेन प्रह्लादनपुरवर्णनम् ॥ अथ पृथक्पृथग्वर्णषु प्रथमं प्रह्लादनपार्श्वनाथवर्णनप्रस्ताव:प्रह्लादनाच्चन्द्र इवाङ्गभाजामन्वर्थनामाजनि यो जगत्याम् ।
प्रह्लादनः पार्श्वपतिः स तत्र प्रह्लादनाङ्के व्यलसद्विहारे ॥ ७५ ॥
तत्र प्रह्लादनपुरे प्रह्लादन इत्याहा नाम यस्य तस्मिन्विहारे चैत्ये । पाल्हविहार इति लोके प्रसिद्धे । स जाग्रन्महिमा प्रह्लादनो नाम पार्श्वपतिर्व्यलसद्विलसति स्म । सकः । यः पार्श्वनाथोऽङ्गभाजां प्राणिनां प्रह्लादनादानन्दोत्पादनाज्जगत्यां क्षितौ विश्वे वा । 'स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत्' इति हैमीवचनात् । अन्वर्थमनुगतार्थे सत्यार्थे नाम यस्य स तथोक्तः । अजनि संजातः । क इव । चन्द्र इव । यथा चन्द्रोनामाहादनादनुगतार्थो जायते । 'चदि आहादे' । चन्दत्याह्लादयति जनानिति चन्द्रः ॥
४