________________
काव्यगाला।
भाततट ताटनी विपाशा
णिक्यानां विहाराः प्रासादाः योगिवत्तापसा इव पञ्चाग्निकष्टं चतसूघु दिक्षु चत्वारः प्रज्वालितकाष्ठामयः पञ्चमो भाखांश्चेति पश्चाग्निसाधनं कृच्छ प्रणयन्ति कुर्वते इति गर्भितोत्प्रेक्षा । काभिः कृता । अर्कस्य सूर्यस्यांशुभिः किरणैः समं संपर्क: संयोगो. ऽस्त्येषां तादृशा ये भास्करमणयस्तेभ्यः अभितश्चतुर्दिक्षु विशेषेण निष्पतनशीलानां हुताशानामनुच्छिष्टवहीनां हेतिभिर्वालाभिः ॥
निर्गत्वरप्रसृमरद्युतिवारिपूर
पूर्णान्तरस्फटिककल्पितकूटकोटीम् । .. जज्ञे किमु प्रतितटं तटिनी विपाशा
प्रेक्ष्येत्यबुध्यत विमुग्धजनेन यस्मिन् ॥ ७५ ॥ यस्मिन् शत्रुजये विमुग्धजनेनाज्ञानलोकेन इत्यमुना प्रकारेणाबुध्यत ज्ञातम् । विचारितमित्यर्थः। किं कृला। निर्गलरा निःसरणशीलाःप्रसमरा द्युतयः किरणास्ता एव वारिणां नीराणां पूराः प्लवाः प्रवाहास्तैः पूर्ण संपूरितं भृतमन्तरं मध्यं यस्यास्तादृशीं स्फटिकैः श्वतोपलैः कल्पिता रचितां कूटानां शिखराणां कोटी प्रेक्ष्य दृष्ट्वा । इति किम् । प्रतितटं शिखरं शिखर प्रति विपाशा तटिनी अनुसर्पिणी नदी किमु जज्ञे संजाता। 'उत्सर्पिणी न खलु तत्र तरङ्गिणी या खनेत्रयोरहह तत्र विपाशि जाता। नीराजनाय नवनीरजराजिरास्तामत्राञ्जसानुरजराजनि राजमाने॥' इति नैषधे।तत्र द्वीपे विपाट नदी न प्रसरणशीला आविर्भवति किल तत्र जातत्वात् अन्यत्र द्वीपेषु यथा सरित्प्रसरन्ती दृश्यते तथा तत्र विपाट नेति पुराणप्रसिद्धिः । 'तत्र तस्यां विपाशि जाता नवपद्मपतिः खने. त्रयोर्नीराजनायास्ताम् । अहहेत्याश्चर्ये । अत्रास्सिन् राजनि साकल्येनानुरज अनुरक्ता भव । 'अजेश्व' इत्यनुनासिकलोपः । 'विपाशा तु विपाट् स्त्रियाम्' इत्यमरः ।' इति नैषधवृत्तौ ॥
गुहागृहशयानानां खगसारङ्गचक्षुषाम् ।
राजी जागरयन्तीव स्तनितैः स्तनयित्नवः ॥ ७६ ॥ यत्र पुण्डरीकपर्वते स्तनयित्नवो वारिवाहाः स्तनितैर्निजगारवः । 'जलदस्य तु । स्तनितं गर्जितं गर्जिः खनितं रसितानि च ॥' इति हैम्याम् । मेघगर्जाभिधानानि कृत्वा । उत्प्रेक्ष्यते-गुहाः शजयकंदरा एव गृहा रमणीयत्वान्मणीगणसोद्योतवाचाल. यतुल्यास्तेषु शयानानां बहुदेवगृहगमनसंजातपरिश्रान्तिवशात्सुखसुप्तानां खगसारगचक्षुषां विद्याधरहरिणीनयनानां खे नभसि गच्छन्तीति खगाः सुरास्तेषामपि मृगेक्षणानाम् । देवीनामित्यर्थः । राजी श्रेणी जागरयन्तीव र्देववन्दनपूजनार्थ प्रबोधयन्तीव॥
स्वभक्तभव्यजन्तूनामन्तरङ्गविरोधिनाम् । योऽरंतुदानां संदोहं स्पृहयन्हन्तुमात्मना ॥ ७७ ॥