________________
१५ सर्गः]
हीरसौभाग्यम् । उदयदरुणबिम्बेनैकतो नैशनिर्य
तिमिरपरिकरेणाप्यन्यतः पर्वतेन । कलितनिलयरत्नः पृष्ठतिष्ठत्तमिस्रो
दिननिधननिकेतापातिलोकोऽनुचक्रे ॥ ३४ ॥ पर्वतेन श्रीश@जयाद्रिणा दिनस्य वासरस्य निधनं नाश एतावता संध्यासमयस्तस्मिन्निके निजवाससौधमापतत्यागच्छतीत्येवंशीलो लोको जनो येनानुचके अनुकृतः खसदृशो विहितः । केन कस्मिन् । पूर्वदिग्विभागवर्तिपार्श्वप्रदेशे उदयदुद्गच्छदुदयाचलचूलिकामलंकुर्वत् अरुणस्य भास्करस्य बिम्बं.मण्डलं तेन । अपि पुनः केन । अन्यतः अपरस्मिन् प्रेतीचीदिग्वर्तमानपाधै नैशानां निशासंबन्धिनां निर्यतां खद्रोहिध्वान्तारातिभीतेनिःसरतां तिमिराणामन्धकाराणां परिकरेण परिवारेण । प्रकरणेत्यर्थः । जिभूतो लोकः । कलितं भूरितमानुच्छेद्यभूच्छायाच्छादितनिखिलपुरस्थपदार्थसार्थप्रकटीकरणप्र. गुणघणिगणं वहस्ते गृहीतं निलयरत्नं प्रदीपो येन । पुनः किंविशिष्टम् । पृष्ठे खनिर्मुकपश्चात्प्रदेशे तिष्ठद्वर्तमानं तमिस्रमन्धकारं यस्य ॥
कचिदपि कमलानामात्मनोऽक्षीणभावं
त्रिजगदनिशदानेनाप्ययाच्यत्वमन्यत् ।
किमु विवरिषुरेष प्रावृषण्याम्बुवाहो - वशदविमलशैलं शीलति साञ्जनौघः ॥ ३५ ॥
अञ्जनानामअनाभिधानातिनीलवर्णवृक्षविशेषाणामोघः समुदयः शत्रुजयशैलं शीलति सेवते । निकुरम्बेण समुद्गताः सन्तीत्यर्थः । उत्प्रेक्ष्यते-एषः अञ्जनपादपवपुः प्रत्यक्षलक्ष्यः प्रावृषेण्याम्बुवाहः किमु वर्षाकालसंबन्धी वारिवाह इव भजते । किं कर्तुमिच्छुः । त्रिजगतां त्रयाणामपि भुवनानामनिशं निरन्तरमविच्छेदं दानेन विश्राणनेनापि खस्य कमलानां लक्ष्मीणां जलानां च क्वचिदपि कुत्रापि स्थाने क्षीणत्वं न सर्वत्राप्यक्षी. णभावं शाश्वतत्वम् अन्यत्पुनः अयाच्यत्वमनथिंभावम् । मेघा हि क्षीरसमुद्राद्याचित्वा जलमादाय वर्षन्ति इति कविसमयो लोकरूढिश्च । कस्यापि याच्यां न कुर्म इत्ययाच्यत्वं किमु विवरिषुर्याचितुमिच्छरिव । कम् । वशं कामितं ददातीति । 'तृष्णा लिप्सा वंशः स्पृहा' इति हैम्याम् । वशदः समीहितदायकं तादृशं विमलशैलं शीलति । कि चाक्षीणलक्ष्मीकस्य याचनीयमेव न भवेत् , तर्हि किमर्थमयाच्यत्वयाच्चायुक्तं परं किं. चिद्वस्तु लक्ष्म्यापि दुःप्राप्यं स्यात् , तद्याच्ञायां केनचित्कृतायां तदपि अविद्यमानतया कुतोऽप्यानीयाभ्यादाय वा दातव्यं भवेत्, अत एव विश्वविश्वपदार्थेश्वरत्वमयाच्यत्वमिति ॥