________________
७६१
कायमाला।
म्बिन्यः उपलक्षणानिखिला अपि योषितः प्रौढान् प्रगल्भान् संपूर्णनिष्पन्नान् गर्भान् भ्रूणान् बिभ्रति । किंमूतान् । उदरेष कंदरामध्येषु कुक्षिषु च शयालन् शयनशीलान् निद्रामुद्रितलोचनान् स्थायुकांश्च । अपि पुनरिह श्रीशत्रुजयाचले नागाः गन्धसिन्धुराः बभुर्भान्ति स्म। उत्प्रेक्ष्यते-निजस्य विमलशैलात्मनो गरिम्णा गुरुतया तुङ्गत्वेन जितेनामिभूतेनाअनेनाअननाना पर्वतेन यस्य पुण्डरीकाः प्रसत्त्यै प्रसन्नीकरणार्थमनुकूलीकरणाय प्रेषिताः प्रस्थापिता आत्मनोऽअनगिरिसंबन्धिनः शृङ्गाः शिखराणीव ॥
कचन करिणि ममे केलिलोले हदिन्यां
तदुपरिसरवेणाभाम्यत भामरेण । क नु गत इह हस्ती(?)स्ताघ आस्ते नवान्त
• स्तमनु पुनरयेऽहं पृच्छतातीव सिन्धुम् ॥ ३२ ॥ .. . हदिन्या नद्यां वचन क्वापि स्थानके केल्या जलक्रीडायां लोले चञ्चले करिणि कुञ्जरे । कपोलयुगलनिर्गलदहलमदजलप्रबलप्रवाहश्यामलीभूतभूयस्तरतरलजले दन्तावले मने जलमध्यप्रविष्टे सति तदुपरि गजमबनस्थाननीरोपरिष्टात् सरवेण सशब्देन गुजारव. भाजा भ्रामरेण मधुकरनिकरेण । भ्रमराणां समूहो भ्रामरम् । यथा 'बहुलभ्रामरमेचकतामसे' इति वृत्तरत्नाकरवृत्ती काव्यकल्पलतायां च । भ्राम्यत भ्रान्तम् । उत्प्रेक्ष्यतेसिन्धु नदी प्रति इत्यमुना प्रकारेण अतीव पृच्छता प्रश्नं कुर्वता इव । इति किम् । नु प्रश्ने । हे सिन्धो, इहास्मिन्प्रदेशे ममो हस्ती महानृपः क्व कुत्र स्थाने गतः प्रविष्टस्तिष्ठति वा । पुनरिह त्वज(?)मध्ये स्वाघो गाधाम्बु खल्पजलमास्तेन वा अगाधोदकं वर्तते। यद्यल्पपयः स्यात्तदाहं तं हस्तिनमनु पृष्ठे अये गच्छामि मदपानार्थमिति शेषः ॥
किमखिलकुलशैला तुकामः खलक्ष्म्या ___ तरुण इव मृगाक्षीः किं दिशः प्रेक्षितुं वा । किमुत निखिललोकालोकनोत्कण्ठिचेता
विमलवसुमतीभृत्प्रोन्नति संतनोति ॥ ३३ ॥ विमलनामा वसुमतीभृत्पर्वतः प्रकर्षणोन्नतिमुच्चैस्तरत्वं संतनोति सम्यकया वृद्धि विदधाति किमु । उत्प्रेक्ष्यते-स्वलक्ष्म्या निजवैभवेन कृत्वा अखिलानष्टावपि कुलशैला. न्मन्दरप्रमुखान् गिरीन् जेतुकामः किं पराभवितुमिच्छरिव । वा अथ वा । उत्प्रेक्ष्यतेदिशो दशापि हरितः प्रेक्षितुमिव । क इव । तरुण इव । यथा युवा मृगाक्षीः सारङ्गसुन्दरलोचनास्तरुणीः प्रेक्षितुमुन्नतीभवति । उताथ वा । उत्प्रेक्ष्यते-निखिलस्य समप्रस्य सचराचरस्य लोकस्य त्रिभुवनस्यापि आलोकने दर्शने उत्कण्ठा औत्सुक्यं विद्यते यस्मिन् तादृशं चेतो मानसं यस्यैवंविधं किमुच्चैस्तरः संजातः ॥