________________
हीरसौभाग्यम् ।
७४७
१४ सर्गः]
यत्कीर्ति नरनिर्जरोरगवधूप्रारब्धनूतस्तुति _श्रुत्वास्यामनुरागितां त्रिभुवने बिभ्रत्यदनां हृदा । शर्वाणीरमणस्तदश्रवणतो मूर्धस्थसिद्धापगां. ___ कुर्वाणां बधिरत्वमुद्धररवैस्तारङ्गजैगर्हते ॥ ३०२ ॥ शर्वाणीरमणः पार्वतीपतिहीरस्तस्याः सूरिकीर्तेरश्रवणतः अनाकर्णनात्तारङ्गजैः तर. ङ्गाणां समूहास्तारङ्गाः, तारङ्गेभ्यो जायन्ते स्मेति तारङ्गजास्तैः । यथा पद्मसुन्दरकविकृतभारतीस्तवे-'वारं वारं तारतरखरनिर्जितगङ्गातारङ्गाः' इति । उद्धररवैरत्युद्धरध्वनिभिर्बधिरत्वं कर्णयोर्बाधिर्य कुर्वाणां मूर्धस्थसिद्धापगां खमस्तकस्थायुकभागीरथीं गर्हते.। अस्या जडाशयायाः प्रोल्लसत्कल्लोलकोलाहलपुरः किमपि कापि श्रोतुं न शक्यते इति निन्दति । कस्मिन्सति । त्रिभुवने जगत्रये सति । किं कुर्वति त्रिभुवने । अस्यां सूरिकीतेः हृदा मानसेन कृत्वा अदभ्रामतिशायिनीमनुरागितां रागयुक्तवत्तां बिभ्रति दधाने। किं कृत्वा। नरा नागराः, निर्जराः सुराः, उरगा नागाः, तेषां वधूभिः अङ्गनाभिः प्रारब्धाः प्रमोदादुपक्रान्ताः । 'प्रारम्भः प्रोपतः क्रमः' इति हैम्याम् । नूता अभिनवाः स्तुतयः स्तवनानि यस्यां तादृशीं यस्य हीरसूरेः कीर्ति श्रुत्वा श्रवणगोचरीकृत्य ॥
नैतां श्रोत्रवतंसिकां विरचयन्सृष्टेविनिर्माणतो
वैयग्र्येण कुलालमेव मनसा मेने निजं नाभिभूः । त्रैलोक्यस्तुतिपारवर्तिविभवां संस्तोतुमेतां गुरुः
संजज्ञे गतगौरवः कविरपि प्रापाकवित्वं पुनः ॥ ३०३ ॥ सृष्टेविश्वसर्गस्य निर्माणतः करणाद्वैयध्येण व्यग्रभावेन एतां सूरिकीर्ति श्रोत्रयोरात्मकर्णयोरवतंसिकां कर्णपूरताम् । 'विदर्भसुभ्रूश्रवणावतंसिका' इति नैषधे । न विरचयन कुर्वाणः । न शृण्वन्नित्यर्थः । नाभिभूर्ब्रह्मा निजमात्मानं कुलालं कुम्भकारमेव मेने । कुम्भकारो हि भाण्डकरणव्यग्रतया किमपि श्रोतुं न शक्नोति । पुनस्त्रैलोक्यस्य त्रिभुवनस्यापि स्तुतेः स्तवनस्य पारे अगोचरे वर्तते इत्येवंशीलो विभवो यस्य । विश्वत्रयस्यापि स्तुतिगोचरा मित्यर्थः । एतां सूरिकीर्ति संस्तोतुं वर्णयितुं गुरुः बृहस्पतिर्गतं गौरवं माहात्म्य वाचस्पतिता वा यस्य तादृशः संजज्ञे संजातः । तथा कविः शुक्रोऽपि काव्यकर्तापि अकवित्वं मूर्खत्वं न काव्यकर्तृत्वं प्राप॥ निविण्णा इव जज्ञिरेऽश्रवणतस्तस्या मदप्रोद्धर
खाशासिन्धुररुन्धनादहरहः स्वान्ते महेन्द्रा दिशाम् । निद्रामुद्रितलोचनं जलनिधौ निध्याय तार्थ्यध्वज
स्वच्छन्देन्दुमुखीव तां प्रतिगृहं शुश्राव सिन्धोः सुता॥३०॥