________________
काव्यमाला।
विद्मो मन्दरकंदरैः प्रतिरवैः प्रोत्साहिताः किंनराः
यत्कीर्ति युवतीकृतानुवदनाः प्रीतेरुपावीणयन् । सिद्धा रोधसि सिद्धसिन्धुसुदृशो योषानुषङ्गा जगू
रङ्गत्तुङ्गतरङ्गसङ्गजरवैः स्थानं ददत्या इव ॥ ३०० ॥ युवतीभिः खकान्ताभिः किंनरीभिः कृतमनुवदनं समं गानं येषां तादृशाः किंनराः पुरुषाः प्रीतेः खतन्त्रानन्दाद्यत्कीर्तिमुपावीणयन् वीणया वादनपूर्वकं गायन्ति स्म तत्र वयमेवं विद्मो जानीमः । उत्प्रेक्ष्यते वा-मन्दरकंदरैर्मेरुदरीभिः प्रतिरवैर्जगज्जनगानतारतरध्वनिप्रतिध्वनितैः कृत्वा प्रोत्साहिता गातुमुत्कण्ठां प्रापिता इव । 'मन्दरकंदरासु शयितानुत्यापयन्किनरान्' इति चम्पूकथायाम् । पुनः सिद्धा देवविशेषास्ते सिद्धानां सिन्धुसुदृशः समुद्रपत्न्या नद्या एतावता गङ्गायाः । 'सिद्धखःस्वर्गिखापगाः' इति हैम्याम् । रोधसि तीरे जगुर्गायन्ति स्म । उत्प्रेक्ष्यते-रङ्गन्तश्चलन्तो ये तुङ्गा । अत्युच्चतमास्तरङ्गाः कल्लोलास्तेषां परस्परं सङ्गाज्जाता ये रवाः कोलाहलाकलितगम्भीर. धीरध्वनयस्तः कृत्वा स्थानं ददत्याः स्वरं पूरयन्त्या इव । जिगासतां हि प्रथमं स्थानं दीयते, रागाद्यालापः वादित्रादिध्वनिश्च विधीयते, तत्स्थानम् , तदनु च गायनो गायति इति गीतिरीतिः। सिद्धाः किंभूताः । योषानुषङ्गाः स्त्रीणामनुषङ्गो येषाम् । सस्त्रीका इत्यर्थः॥
तद्गङ्गागिरिराजयत्पिबजनानुाः स्तुवन्त्यो मुहुः
स्वर्गे स्वर्गिमृगीदृशो निजजनि निन्दन्ति मन्दाशयाः । मोहात्प्राक्परिकल्पितप्रियतमार्धाङ्गानुषङ्गादिमां
श्रोतुं क्वापि न गन्तुमीश्वरतया खं शैलजाक्रोशति ॥ ३०१॥ __ सैव कीर्तिप्रथैव गङ्गा मन्दाकिनी तस्या गिरिराजो हिमाचल एवोत्पत्तिस्थानं यः सूरिस्तं पिबन्ति सादरं पश्यन्ति तादृशान् जनान् भूमण्डलजन्मनो लोकान् मुहुर्वारंवारं स्तुवन्त्यः प्रशंसन्त्यः श्लाघमानाः खर्गिमृगीदृशः सुराङ्गनाः खर्गे देवलोके निजजनि खावतारं नि. न्दन्ति तद्दर्शनाभावाद्गर्हन्ति । किंभूताः। मन्दाशयाः प्रभोरन्यभुवनस्थायुकत्वेन दर्शनमलभमाना अत एव मन्दीभूतमनसो जडभावमुपगताः । तथा मोहादज्ञानात् । 'सोऽहं हंसायितुं मोहात्' इति चम्पूकथायाम् । मोहशब्देनाज्ञानम् । अथ च मोहात्प्रेमातिरेकात्प्राक् प्रथमं परिकल्पितः कृतः प्रियतमस्य अतीष्टस्य भर्तुश्च हरस्यार्धाङ्गेन सामिशरीरेण सममनुषङ्गः सबन्धः तस्मात्खार्धशरीरमीश्वराङ्गे स्यूतमतोऽर्धाङ्गी गौरीति प्र. सिद्धिः । तत्कारणादिमां सूरिकीर्तिं क्वापि श्रोतुं कर्णगोचरीकर्तुं नेश्वरतया न समर्थत्वेन स्वमात्मानं शैलजा पार्वत्यपि खमोहमाकोशति धिक्कुरुते। हा मया अविचारचतुरया वृ. थैव हाराङ्गेन खाङ्ग स्यूतम् , गीतिप्रीतिमत्तापि कापि हरेण विना हन्तुं न शक्तेति ॥