________________
१४ सर्गः) हीरसौभाग्यम् ।
७२९ णिपरीक्षाकारकादिभिः कृत्वा महीपतेरकब्बरसाहेान्यो बहुमाननीयः। पुनः गुणैर्दुर्ज. नानां कर्णेजपानां खलानां वा मल्ल इव मल्लः प्रतिपक्षः ॥
समहं मथुरापुर्या यात्रां पार्श्वसुपार्श्वयोः ।
प्रभुः परीतः पौरौघैश्चारणर्षिरिवाकरोत् ॥ २४९ ॥ प्रभुहीरविजयसूरिः मथुरापुर्या मधूपन्ननगरे समहं सोत्सवं चारणर्षिविद्याजवाचारणादिमुनिरिव पौरौधैर्नागरिकनिकरैः परीतः परिवृतः संघेन सहितः पार्श्वसुपार्श्वयोस्त्रयोविंशतितमसप्तमजिनचन्द्रप्रतिमयोर्यात्रामकरोच्च कृतवान् ॥
जम्बूप्रभवमुख्यानां मुनीनामिह स प्रभुः । __ ससप्तविंशतिं पञ्चशती स्तूपान्प्रणेमिवान् ॥ २५०॥ स प्रभु_रसूरिरिहैव मथुरानगर्या जम्बूनाममहावीरदेवस्य द्वितीयपट्टधरः, चरमकेवली प्रभवनामा तृतीयः पट्टधरः, तो मुख्यौ प्रकृष्टावाद्यौ वा येषां तेषां मुनीनामुपलक्षणात्साध्वीनामपि परं तन्मध्यवर्तिनामेव सहसप्तविंशत्या वर्तते या तादृशीं पञ्चशती स्तूपान् प्रणेमिवान्नमति स । पञ्चशती प्रभवखामिसहिता चौरसाधूनां जम्बूखामियुतानामष्टानां कनीनां नवानामपि मातृपितृणां नव त्रिभिर्गुणिताः सप्तविंशतिर्जातं ययोक्तमानं सप्तविंशत्यधिका पञ्चशतीस्तूपाः सन्तीति ॥ मथुरायात्रा ॥
गोपालशैलेऽथ सुपर्वसद्मावष्टम्भनस्तम्भ इवाभ्युपेत्य ।
समं जनौधैर्जिनसार्वभौमं ककुद्मकेतुं नतवान्त्रतीन्द्रः ।। २५१ ॥ अथ मथुरायात्रानन्तरं व्रतीन्द्रः सूरिः जनौधैर्भविकप्रकरैः समं सार्धमुपेत्यागत्य • गोपालशैले 'ग्वालेरगढ' इति लोकोच्या तत्र ककुद्मान् वृषभः केतुश्चितं यस्यैतावता ऋषभखामिनं जिना: सामान्यकेवलिनः तेषु तेषां मध्ये वा सार्वभौमं चक्रवर्तिनं नतवान् प्रणमति स्म । किंभूते गोपालशैले । सुपर्वसद्मनः खर्गस्यावष्टम्भनार्थमाधारकृते वेधिना विश्वसजा कृते स्तम्भे स्थूणा वागिव ॥ . द्वापञ्चाशद्गजमितवृषभप्रतिमां स सिद्धशैल इव।
प्रभुरपरा अपि तस्मिन्मूर्तीर्जेनीरनंसीत्सः ॥ २५२ ॥ स प्रभुः सूरिः सिद्धशैले शत्रुजयपर्वते इव तस्मिन् गोपगिरौ द्वापञ्चाशतो गजा वस्त्रादिप्रमितिकरणार्थ वंशमया काष्ठमया वा यष्टिविशेषास्तैर्द्विपञ्चाशद्भिर्मिता प्रमाणीकृता या वृषभस्यादिनाथस्य प्रतिमा मूर्तिस्तामाशां वरीयाकृतित्वाद्वासक्षेपपूर्वकमनंसीत् प्रणतवान् । अपि पुनरपरा अन्या अपि जैनीर्जिनसंबन्धिनीर्मूर्तीः प्रतिमाः पञ्चाशच्चत्वारिंशत्पश्चत्रिंशत्रिंशद्विशत्यादिगजमानास्तथैव पूर्वप्रतिमावन्नेमिवान् ॥ १. मध्यमपदलोपिसमासत्वेन नानादिः प्रसक्तिः.