________________
७२८
काव्यमाला। श्रीसूरीश्वरहीरहीरविजयैस्तैः स्थानसिंहः स्वयं
निर्माप्यातिमहोत्सवेन भगवद्विम्बप्रतिष्ठामहम् । कल्याणश्रियमर्थिसार्थवशगां कुर्वन्नपि प्रीतिमा
नेतच्चित्रममुत्र तन्निजवशां तां निर्मिमीते स्म यत् ॥ २४६ ॥ अमुत्रास्मिन् जगति तत्प्रसिद्धमेतदृश्यमानं चित्रमाश्चर्यमास्ते । तत्किम् । थानसिंहो यत्तां कल्याणश्रियं मुक्तिलक्ष्मी निजवशां स्वायत्तां निर्मिमीते स्म चकार । किंभूतः । ' प्रीतिमान् मुक्तिलक्ष्मी प्रति स्नेहवान् । अन्यत्र प्रमोदमेदुरिताङ्गयष्टिः । पुनः किं कुर्वन्। कल्याणश्रियं सुवर्णविभूतिमर्थिनां याचकानां सार्थस्य वर्गस्य वशगां वशवर्तिनी कुर्वन्नपि सजन्नपि । किं कृत्वा । इह फतेपुरमध्ये तैरकब्बरसाहिविहितसन्मानः श्रिया शुद्धाचारत्वेन यशोलक्ष्म्या युक्तानां सूरीणामपरेषामनूचानानां मध्ये ईश्वराः अधिपतयः ज्ञानवर्गादिभिर्महीयांसस्तेषु हीरैश्चडामणिकल्पैहीरविजयसूरिभिः, खयमात्मना अप्रतिमेनासाधारणेन उत्सवेन महेन भगवतां तीर्थकृतां बिम्बानां प्रतिमानां प्रतिष्टां वा सक्षेपाअनशलाकादिकां निर्माप्य कारयित्वा ॥ . . .
श्रीमद्गुर्जरराजवीरधवलाधीशः समुत्कण्ठितः ।
स्वेन श्रीकरणाभिधानपदवीं श्रीवस्तुपालं यथा । . सूरिक्षोणिमहेन्द्रहीरविजयस्तस्मिन्महेऽस्याग्रहे
णौपाध्यायपदं निनाय विबुधं शान्त्यादिचन्द्राभिधम् ॥२४७॥ स जगद्विख्याताकब्बरप्रतिबोधविधाता सूरिष्वनूचानेषु क्षोणिमहेन्द्रः पृथिवीपाकशासनो राजा श्रीहीरविजयमूरिस्तस्मिन् प्रतिष्टासंबन्धिनि महे महोत्सवे अस्य थानसिंहस्याग्रहेण शान्तिरिति पदमादौ यस्य तादृशी चन्द्र इत्यभिधा नाम यस्य तोदृग्विधं विबुधं प्रज्ञांशमुपाध्यायपदं निनाय प्रापितवान् । शान्तिचन्द्रप्रज्ञांशस्योपाध्यायपदं ददावित्यर्थः । तत्र दृष्टान्तं वक्ति-यभा सम्यगुत्कण्ठा औत्सुक्यं जातमस्येति समुत्कण्ठितः श्रीमान्मण्डललक्ष्मीकलितः गुर्जराणां राजा खामी वीरधवल इति नामा. धीशः प्रभुः स्वेनात्मना श्रिया भाग्यवैभवेन युक्तं वस्तुपालं तेजःपालज्येष्ठभ्रातरं श्रीकरणनाम्नी पदवीमधिकारविशेषम् । मित्रित्वमित्यर्थः ॥ इति थानसिंहप्रतिष्ठायां शान्तिचन्द्रस्योपाध्यायपदम् ॥
दुर्जनमल्लो दुर्जनमल्ल इव गुणैर्महीपतेर्मान्यः ।
समहं प्रत्यष्ठापयदहेत्प्रतिमा मुनीन्द्रेण ॥ २४८ ॥ दुर्जनमल्लो नाम श्राद्धो मुनीन्द्रेण सूरिपार्थे समहं महामहकलितं यथा स्यात्तथा अर्हत्प्रतिमा भगवद्विम्बानि प्रत्यष्टापयत् प्रतिष्ठापयति स्म । किंभूतः । गुणैरौदार्यधैर्यम