________________
१४ सर्गः] हीरसौभाग्यम् ।
७२१ ऊचे कापि पिकं पिकीति विरहिव्यामोहजेनांहसा
प्रादुर्भूतमिवावयासि दमनं न क्षोणिसंक्रन्दनम् । स स्माहेति गुरोगिरा द्विजतयेवासौ स्वलीलावती
लीलापञ्चमगीतिपाठकतया वास्मान्न हन्ति प्रिये ॥ २२८ ॥ कापि पिकी कोकिला पिकं खकान्तं कलकण्ठमित्यूचे भाषितवती । हे जीवितनायक पिक, क्षोणिसंक्रन्दनं भूमिजम्भारारातिमकबरं दमनमात्मनां निवर्हयितारं प्रादुर्भूतं प्रकटं जातं नावयासि न वेसि । उत्प्रेक्ष्यते-विरहिणां वियोगिनामत्यनुरक्तात्मयुवतीभिः समं विश्लेषवतां प्रवासिनां जनानाम् । अथ वा प्रवासिप्रियापांसुलामहिलालोकानां वा व्यामोहजेन विरहोत्पादनोद्धृतातुच्छमूर्छसंतापजनितेनांहसा । यदुक्तम्'कोइलिमधुरीभाषिों ववनि कुहु कुहइ । जसकापिउ परदेस किहि यडाडहकि हइ ॥ भरभादुकीरातिनयनझरलइ तुहइ । दाधाउपरिलूणववीहादे तुहइ ॥' इत्युक्तेः । पापेनेवागतं नो जानीषे। यत्खैरं मत्तो मया रमसे इति प्रागुक्तादध्याहार्य तत इत्युक्तेरनन्तरं स वनप्रिय आह स्म अब्रवीत् । हे प्रिये, असौ साहिर्गुरोहीरसूरेगिरा वाचा अस्मान हन्ति न प्रमापयति । उत्प्रेक्ष्यते-द्विजतया ब्राह्मणत्वेनेव। ब्राह्मणो हि लोकेष्ववध्यः । चतसषु हत्यासुं प्रथमहत्यात्वेनेति । 'द्विजः पक्षी ब्राह्मणश्च' इत्यनेकार्थः । वाथ वा खस्यात्मनो लीलानतीनां विलासिनीना लीलया विलासेन कलितं यत्पञ्चमरागोपचितगानं पञ्चमध्वनितं तस्य पाठकतया अध्यापकत्वेनेव वा साहिहरिणीदृशः पञ्जरान्तरस्थायुककेलीपिकनिकरमाकन्दम मञ्जरीव्रजाखादोद्घटिताकुण्ठकण्ठकुहरसमुच्चरच्चारुप‘श्चमकूजिताकर्णनात्तदनुगुणं गायन्तीत्यर्थः ॥ इति कोकिलमिथुनालापः ॥ • खां पत्नी ताम्रचूडो दरतरलदृशं हन्तुमभ्येति भूमी.. भास्वांस्त्वां मामपीति प्रकटितवचसं धीरयन्नित्यवादीत् ।
मा भूस्त्वं भूरिभीतेर्भवनमिह जगद्बोधकर्तृत्वशक्ति
व्यक्तिप्रेमातिरकादिव विभुवचसा ध्वंसते नायमस्मान् ॥ २२९ ॥ .. ताम्रचूड: कुक्कुटः खां स्वकीयां पत्नी कुक्कुटां कान्तां धीरयन्नाश्वासयन् सनित्यवा
दीत् निगदितवान् । किंभूतां पत्नीम् । हे प्राणेश्वर हे ताम्रचूड, भूमीभाखानकब्बरसाहिः त्वामपि पुनर्मामपि हन्तुं कीनाशसकाशं नेतुमभ्येति आगच्छति इत्यमुना प्र. कारेण प्रकटितवचसं उदीरितं भर्तुः पुरः कथितं दीनवचनं यया । अत एव पुनः किंभूताम् । दरेण कृतान्तनिकेतातिथीभवनभयेन तरले चपले दृशौ यस्यास्तादृशम् । धीरां करोति धीरयति इति धीरयन् निर्भयां कुर्वन् । तत्कथं तदेवाह-इति किम् । हे प्राणप्रिये हे कुक्कुटि, त्वं भूरिभीतेः प्रवलतमभयस्य भवनं स्थानं मा भूर्भव । यतो विभुवचसा जीवदयोपदेशादयं भूमानास्मान् ध्वंसते न घातयति । उत्प्रेक्ष्यते
९१.