________________
काव्यमाला।
इति पृषती शंसति दयितं खं किमु जितकासीव विगतभीतिः । स्वयुवतिजङ्घाप्रतिभटभावादिव तव हन्ता यदवनिकान्तः ॥ २२४ ॥
पृषती मृगीविशेषाखं दयितं प्रेयांसमात्मीयं पृषतं प्रति शंसति कथयति। इति किम् । हे प्रिय, त्वं जितकासीव जिताहवः विजयीव किमु कथं विगतभीतिनिर्मुक्तभयो वर्तसे। यत्कारणादवनिकान्तोऽकन्बरसाहिः तव भवतो हन्ता व्यापादयितास्ते । मृगयुत्वेन त्वां हनिष्यतीत्यर्थः । उत्प्रेक्ष्यते-खस्यात्मनो युवतीनां तरुणीनां स्त्रीणां जवानां प्रतिभटभावाद्वैवरवैरित्वादिव । जल्यो मृगजबोपमा योगशास्त्रवृत्त्यादिष्वास्ते अतस्तदुत्प्रे. क्षा । 'पृषतीमस्पृशती तदीक्षणे' इति नैषधे ॥
पृषदिति कान्तां निगदति भूभृद्रतिविभुवाचा व्यथयति नास्मान् । निजकजनेत्रानयनसखित्वाच्छरणगतत्वादुत किमु राज्ञः ॥ २२५ ॥
पृषन्मृगविशेषः कान्तां खप्रियां पृषती प्रति इति निगदति जल्पति । पृषवत्पृषच्छब्दोऽपि यथा जलबिन्दुवाची ‘पृषत्पृषतविप्नुषः बिन्दौ' इति, तथा मृगवाच्यपि दृश्यते। यथा 'पृषत्किशोरी कुरुतामसंगतम्' इत्यपि नैषधे । इति किम् । हे प्रिये पृषति, व्रतिविभोर्मुनीन्द्रस्य वाचा वाण्या कृत्वा भूभृद्राजा अस्मान्मृगजातीरपि न व्यथयति नैव पीडयति । उत्प्रेक्ष्यते । निजकजनेत्राणामात्मीयानां कमलदललोचनानां तरुणीनां नयनकान्तायतानां सखित्वान्मित्रत्वादिव । उताय वा राज्ञः चन्द्रस्य शरणगतत्वात्किमु राज्ञोऽङ्कस्थायुकत्वादिव ॥ इति मृगमिथुनालापः । इति वनचराः ॥
कापि मयूरी लपति पतिं किं केकाङ्कितताण्डवकेलीम् ।
व्यातनुषे मनुषे नो मानुषपूषणमेनं खासहजम् ॥ २२६ ॥ काप्यज्ञाताभिधाना मयूरी केकिनी पति खभत्र प्रति वदति । हे केकिन प्रिय, केकया शिखण्डिसंबन्धिशब्दविशेषेणाङ्कितां कलितां ताण्डवकेली नृत्यविलासं किं कथं व्यातनुषे विस्तारयसि । हे नाथ, एनं मानुषपूषणं मनुजेषु प्रतापवत्त्वेन विभाकरं स्व. स्यात्मनोऽसहजं परिपन्थिनं नो मनुषे न जानासि इति काकूक्तिः । अपि तु जानीहि ॥
विष्टपजीवनवारिधरैरिव मैत्र्याद्वा शितिकण्ठतया।
सूरिगिरा न निहन्ति नृपोऽस्मान्मेचकिनौच्यत कान्तेति ॥२२७॥ मेचकिना मयूरेण कान्ता खप्रेयसी मयूरी इत्यौच्यत इदं निगद्यते स्म । हे कान्ते हे शिखिनि, सूरेहीरविजयगुरोगिरा दयोपदेशवाचा नृपः पातिसाहिरस्मान्न निहन्ति नैव यमातिथीकरोति । उत्प्रेक्ष्यते-दिष्टपानां जगजन्तूनां जीवनैजीवितव्यहेतुभिर्वारिधरै धैः सह मैत्र्यात्सौहार्दादिव । अथ वा शितिकण्ठतया नीलकण्ठत्वेनेवेश्वरतया इव ॥ इति मयूरमिथुनालापः॥