________________
१.६
काव्यमाल ।
शयति । क इव । वैनतेय इव । यथा वैनतेयोऽष्टसंख्यान् व्यालानां सर्पाणामन्ववायान् कुलानि वासुक्यनन्ततक्षककंकोलपद्ममहापद्मशङ्खकुलीश शिनामानि विध्वंसते । पुनः कृपालुर्दया• वान् प्रणेमुषां निजपादाम्बुजयोर्नश्रीभूतानां जनानां लघिमा वशिता ईशत्वं प्राकाम्यं म हिमा अणिमा यत्र कामावसायित्वं प्राप्तिरित्यष्टसंख्याका अष्टनाम्न्यो वा सिद्धयः ताः शये हस्ते शयालुः शयनशीला हस्तस्थिताः कुरुते संपादयति ॥
ऊर्जस्वलत्वं कलय कलौ यो निधिर्महिम्नां महसामिवांशुः ।
जागतिं शङ्खश्वरपार्श्वनाथः श्रेयः पुरीप्रस्थित पान्थसार्थः ॥ ४३ ॥
यः श्रीशङ्खेश्वरपार्श्वनाथो जागर्ति स्फूर्जति । किं कुर्वन् | कलौ कलिकालेsपि युगे ऊर्जस्वलत्वं स्फूर्तिमत्तां कलयन् धारयन् । किंभूतः । महिमां माहात्म्यानां प्रभावानां निघिराश्रयस्थानम् । क इव । अंशुरिव । यथा सूर्यो महसां तेजसां प्रतापानां वा निंधानम् । पुनः किंभूतः । श्रेयः सिद्धिरेव पुरी नगरी तत्र प्रस्थिताश्चलिता ये पान्या भव्याध्वगास्तेषां सार्थ इव सार्थः ॥ इति श्रीशङ्खश्वरपार्श्वनाथः ॥
तत्रापि च स्फूर्तिमियर्त्यपूर्वी श्रीस्थम्भने स्थम्भनपार्श्वदेवः । व्यध्वंसि धन्वन्तरिणेव येन कुष्टोपतापोऽभयदेवसूरेः ॥ ४४ ॥
अपि च- पुनरन्यद्वर्णनप्रस्तावे तत्र गुर्जरमण्डले श्रिया लक्ष्म्या युक्तं यत्स्थम्भनं स्थम्भतीर्थपुरं तत्र स्थम्भननामा पार्श्वदेवोऽपूर्वामसाधारणीं स्फूर्ति मियतिं गच्छति । प्राप्नोतीत्यर्थः । येन श्रीस्थम्भनपार्श्वदेवेन नवागीवृत्तिविधोऽभयदेवसरे: कुष्ठोपतापः । अर्थात् शरीरात्कुष्ठनामा उपतापो रोग: । 'रोगो रुजा रुगातको • आम आमय आकल्यमुपतापो गदः समः' इति हैम्याम् । व्यध्वंसि निरस्तः । केनेव । धन्वन्तरिणेव । कविसमयानुसारेण नारायणासुरसुरमथितक्षीरसमुद्रसमुद्भूतचतुर्दशरत्नमध्ये धन्वन्तरिनाम वैद्यरत्नमजायत । यथा धन्वन्तरिरत्नेन धन्वन्तरिनाम्ना वैद्यराजेन कुष्टादिसर्वरोगो विध्वस्यते ॥ स्वक्षारतां सूनुकलङ्कितां च मार्छु क्रमाम्भोजरजोमृतेन ।
वेलाछलाद्यं जलधिर्द्विवेलमुत्कण्ठितो नन्तुमिवाभ्युपैति ॥ ४५ ॥
जलधिः समुद्रो द्विवेलं द्वे वेले वारौ यत्रेति क्रियाविशेषणम् । वारद्वयं वेलाछलाद्वारिवृद्धिव्याजात् । उत्प्रेक्ष्यते - यं स्थम्भनपार्श्वदेवं नन्तुं नमस्कर्तुमिवाभ्युपैति अभिमुखं समेति । किंभूतो जलधिः । उत्कण्ठितः कण्ठादूर्ध्वमुत्कण्ठ उत्कण्ठत्वं संजातमस्येति भावप्रधानो निर्देशः । अन्योऽप्युत्कण्ठित औत्सुक्यकलितो जिनं नन्तुमायाति । किं कर्तुम् । मार्टुमपनेतुम् । काम् । स्वस्यात्मनः क्षारतां लवणतां द्रोहन्तशक्रोद्धतां च । च पुनः सूनोश्चन्द्रमसः । विधोः समुत्पन्नत्वात् । कलङ्को गुरुदाराधिगमनात्परस्त्रीलाम्पव्यापवादो ऽस्यास्तीति कलङ्की तस्य भावः कलङ्किता ताम् । 'कलङ्कोऽङ्कापवादयो:' इत्यनेकार्थः । केन । क्रमादर्थाद्भगवत्पादावेवाम्भोजे कमले तयो रजो रेणुस्तदेवामृतं पीयूषं तेन । ‘त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा' इति भक्तामर स्तोत्रे ॥ इति स्थम्भनपार्श्वनाथः ॥