________________
१ सर्गः]
हीरसौभाग्यम् । मिव । किं कृत्वा । यतः श्रीशङ्केश्वरपार्श्वनाथात् रूपं दुष्टरोगापगमात्सर्वाङ्गसुभगतामाप्य लब्ध्वा । उत्प्रेक्ष्यते-स्मारं स्मरसंबन्धि रूपं संप्राप्य । पुनः किं कृत्वा । अनाप्य अनासाद्य । कुतः-झंझपुरे झंझूवाडाख्यग्रामे । योऽर्कः साधिष्ठायकसूर्यप्रतिमा ततः । प्रथम हि दुर्जनशल्यभूमीपतिः सूर्यपुर उपविष्टः । ततस्तदधिष्ठायकेन प्रोक्तं यत्-'तवाङ्गकुष्ठादिरोगामयो मयापनेतुं न शक्यते । ततस्त्वं शङ्खश्वरपार्श्वनाथपार्श्व प्रयाहि । स एव तव सर्वाङ्गीणान्रोगानपनेष्यति । तदनु शङ्केश्वरपार्श्वनाथमाराध्य सम्यग् रूपवानासीदिति संप्रदायः । अतो झंझपुरस्थभास्करात्सम्यक् रूपं न प्राप्तम् । कस्मादिव । निःस्वादिव । यथा दरिद्रपुरुषादैश्वर्य नाप्यते । अत्र पूर्वीचार्यप्रणीतस्तुतिकाव्यानि यथा-'अपूपुजत्त्वां विनमिन मिश्च वैतात्यशैले वृषभेशकाले । सौधर्मकल्पे सुरनायकेन त्वं पूजितो भरितरं च कालम् ॥ १ ॥ आराधितस्त्वं समयं कियन्तं चान्द्रे विमाने किल भानवेऽपि । 4. ग्रावतीदेवतया च नागाधिपेन देवावसरेऽर्चितस्त्वम् ॥ २॥ यदा जरासंधप्रयुक्तविद्याबलेन जातं स्ववलं जरार्तम् । तदा मुदा नेमिगिरा मुरारिः पातालतस्त्वां तपसा निनाय ॥ ३ ॥ तव प्रभोस्तान्त्रजलेन सिक्तं रोगैविमुक्तं कटकं बभूव । संस्थापितं तीर्थमिदं तदानीं शवेश्वराख्यं यदुपुंगवेन ॥ ४ ॥ तथा कथंचित्तव चैत्यमत्र श्रीकृष्णराजो रचयांचकार । स द्वारकास्थोऽपि यथा भवन्तं ननाम नित्यं किल सप्रभावम् ॥ ५ ॥ श्रीविक्रमान्मन्मथवाणमेरुमहेशतुल्ये समय व्यतीते। त्वं श्रेष्ठिना सज्जननामकेन निवेशितः सर्वसमृद्धिदोऽभूः ॥ ६॥ झंझपुरे सूर्यपुरोऽनवाप्तं त्वतोऽधिगम्यागमनङ्गरूपम् । अचीकरदुर्जनशल्यभूपो विमानतुल्यं तव देवचैत्यम् ॥ ७॥' इति ।
पद्मावतीप्राणपतिः प्रसूनाशनी भविष्णुश्चरणारविन्दे । · तन्तन्यते यन्महिमानमुव्यां सरोजसौरभ्यमिवाहिकान्तः ॥ ४१ ॥
पद्मावत्या वैरोट्यापरनामधेयायाः प्राणपतिर्भता धरणोरगेन्द्रो यन्महिमानं यस्य श्रीशड्वेश्वरपार्श्वनाथस्य माहात्म्यमुयो धरित्र्यां तन्तन्यते अद्यापि यावदतिशयेन विस्तारयति । पद्मापतिः किंभूतः । प्रसूनं पुष्पं तदेवाशनमाहारो यस्य स प्रसूनाशनो भृङ्गः । 'भोज्यं तु पुष्पमधुनी' इति हैमीवचनात् । स भविष्णुर्भवनशीलः । कस्मिन् । अर्थाद्यद्भगवत. चरणारविन्दे मादपछे। क इव । अहिकान्त इव । यथा अहिकान्तो वायुः । 'वातो. ऽहिकान्तपवमानमरुत्' इति हैम्याम् । सरोजसौरभ्यं कमलपरिमलं क्षितौ तन्तनोति ॥
यो ध्वंसतेऽष्टापि दरान्नराणां व्यालान्ववायानिव वैनतेयः । शयेशयालूः पुनरष्टसिद्धीः प्रणेमुषां यः कुरुते कृपालुः ॥ ४२ ॥ यो भगवानराणामर्थादात्माश्रितमानवानां दरान् मनुष्यादुत्पन्न इह लोकभयम् , सिंहस. पीद्युत्पन्नपरलोकभयम्,चौरराजाद्युत्पन्नादानभयम्, अग्निविद्युदाद्यकस्माद्भयम्,दुःकालजा. तजीविकाभयम् , मरणभयम्,अयशोभयम्, नरकतिर्यग्गत्यादिदुःखजं संसारभयमेतान्यष्टौ । अथ वा मत्तेभमृगेन्द्रदवाग्निभुजंगसंग्रामसमुद्ररोगचौराभिधानानि महाभयानि विध्वंसते ना