________________
७०७
१४. सर्गः] हीरसौमाग्यम् । श्चिन्तारत्नम् । नःस्थ्यं दारिद्र्यं निहन्ति नाशयति । पुनर्हरिचन्दनानि श्रीखण्डपादपाः हरितो दिश आमोदयन्ति सौरभयन्ति सुरभीकुर्वाणाः सन्त आमोदयन्ति सप्रमोदान् कुर्वन्ति हर्षयन्ति पुनरम्बरकेतवो भास्कराः संतमसमन्धकारं मिन्दन्ति निर्दलयन्ति । च पुनः सालाः सर्वजातीयाः पादपाः पचेलिमानि फलानि दिशन्ति यच्छन्ति । तथा वाः समुद्रस्य वशाः पत्न्यो नद्योऽपि पयःप्रवाहान् पानीयपूरान् वहन्ति। उत्प्रेक्ष्यतेविश्वेषां जगतां समस्तजन्तुजातानां वा य उपकारः समीहितकरणं तत्र एका अद्वितीया निबद्धा रचिता कक्षा स्वीकारो यैस्तादृशैरेभिश्चन्द्रादिपदार्थैः सूरिभिर्वा वसुधा एषा विश्वंभरा रत्नगर्भा बभूव रत्नानि मणयो रत्नपुरुषा वा गर्भे मध्ये यस्याः तादृशी जातेव । रत्नगर्भेत्यभिधानमेभिर्भूमेरभूदिव ॥ त्रिभिर्विशेषकम् ।। शशंस साहिर्जनयन्ति मन्मनोविनोदमेते विबुधा इव प्रभो। अमून्परं नाहमवैमि. बिभ्रतः शमीद्रुमान्वह्निमिवार्तिमन्तरा ॥१८६ ॥ साहिरकब्बरः शशंस कथयति स्म। हे प्रभो, एते विहंगमा मन्मनोविनोदं मम मनसश्चित्तस्य विनोदं क्रीडां जनयन्ति । के इव । विबुधा इव । यथा पण्डिता विविधशास्त्रगोष्ठीकाव्यादिरसैः मनोविनोदमुत्पादयन्ति । यदुक्तम्-'गीतशास्त्रविनोदेन कालो गच्छति धीमताम्' इति । परं पुनरहममून् विहगान् अन्तरा मनोमध्ये अर्ति पीडाश्चितां वा बिभ्रतो धारयतो नावैमि न जाने । कानिव । शमीद्रुमानिव । यथा शमीवृक्षाः 'खेजडी' इति प्रसिद्धाः अन्तरा मध्ये वहिमनलं बिभ्रति । 'शमीमिवाभ्यन्तरलीनपावकाम्' इति रघुवंशे ॥ . . शापेन कस्यापि मुनेरिवानिशं निरुध्यमाना विविधाः खगा मया । . निर्मुक्तिभाजो भवदीयभाषितरेते स्वतन्त्रं विचरन्तु सत्वरम् ॥ १८७॥ . हे प्रभो, एते विविधा नानाजातीया अनेकजातिजन्मानो मयूरशुकसारिकाकाकपिकचकोरप्रमुखाः खगाः विहंगमाः भवदीयैः श्रीमत्संबन्धिभिः भाषितैः कथितैः निर्मुक्ति बन्धनं परेभ्यो मोक्षं भजन्तीति निर्मुक्तिभाजः मया विमुक्ताः सन्तः सत्वरं शीघ्रं खतन्त्रं स्वेच्छया विचरन्तु सुखं खैरमितस्ततो व्रजन्तु विशिष्टां मनोभिलषितां वा चूर्णि कुर्वन्तु । खगाः किं क्रियमाणाः । मया अनिशं निरन्तरं निरुध्यमानाः पञ्जरादिषु प्रक्षिप्य संरक्ष्यमाणाः रोधं प्राप्यमानाः । उत्प्रेक्ष्यते-कस्यापि कोपनस्य दुर्वासःप्रमुखस्य कस्यचिदनिर्दिष्टनाम्नो मुनेस्तापसस्य आक्रोशवाक्येनेव अनिष्टवद्वसेत् ॥
भाखत्करा इव सुदूरभुवः समेता
गृह्णीत दन्तिहयहेममुखं न किंचित् । तेन प्रसाद्य किमपि स्खविधेयमेष
प्राप्यः कृतार्थपदवीमिति भूभुजोचे ॥ १८८ ॥