________________
१४ सर्गः ]
हीरसौभाग्यम् ।
६९१
तीर्त्वा समुल्लङ्घय । क इव । अल्पकर्मेव । यथा लघुकर्मा आसन्नसिद्धिः बहुक्षीणकर्मप्रकृतिर्जन्तुस्तपसा संसृति संसारं प्रतरति । पाठान्तरे तर्या नावा कृत्वा अर्यम्णो भानोनन्दनां पुत्रीं नदीं यमुनां प्रतीर्य । क इव । भवीव । यथा भव्यजीवो भरतादिवद्भावनया शुभाध्यवसायेन संसृतिं प्रतरति ॥
यमीसमीपे रपडीपुरे क्रमात्स संघलोकेन समं समीयिवान् । मनोरथाकृष्टमिवागतं पुरो व्यलोकयच्छौर्यपुरं पुरस्ततः ॥ १३४ ॥
स सूरिः क्रमात्प्रयाणपरिपाटीतः यम्या यमुनानद्याः समीपे पार्श्ववर्तिनि रपडीनानि पुरे समीयिवान् समागतः । कथम् । समं सार्धम् । केन । संघलोकेन आगराप्रमुखनगरश्राद्धसमुदायेन । श्राद्धानामनु श्राद्धयोऽपि समेता एव । ततः रपडी आगमनानन्तरं पुरोs शौर्यपुरं नाम नगरं 'सोरीपुर' इत्यधुना प्रसिद्धं व्यलोकयत्पश्यति स्म । उत्प्रेक्ष्यते—मनोरथेन सूरीशितुरभिलाषेणाकृष्टमाकृष्टयानीतमिव प्रभुपुरः प्रादुर्भूतम् ॥ प्रभुः प्रियस्येव सधर्मचारिणीमहर्निशं शौर्यपुराङ्कचारिणीम् । च्युतोत्तरीयां कबरीमिवार्णवाम्बरेन्दिराया नवभङ्गसङ्गिनीम् ॥ १३९ ॥ संबन्धस्त्वग्रे वक्ष्यते । केवलं कालिन्द्येव वर्ण्यते - यमुनां किंभूताम् शौर्यपुर: सोपुरस्य अङ्के समीपे । 'अङ्क: स्थाने क्रोडेऽन्तिकागसोः' इत्याद्यनेकार्थः । चरति वहती - त्येवंशीलाम् । कथम् । अहर्निशं निरन्तरम् । कामिव । सधर्मचारिणीमिव । यथा प्रियस्य स्ववल्लभस्य समानेन धर्मेण चरणशीला पतिव्रता पत्नी नक्तं दिनमङ्के उत्सङ्गे कोडे वा समीपे वा चरति प्रवर्तते इत्येवंशीला स्यात्सति व्यतिकरे भर्तुरुत्सङ्गे उपविशति । यदुक्तं नेमि. चरित्रे - 'अनुज्ञाप्य खपितरो देवदन्तीमुपेयुषीम् । रथमारोपयामास नलोऽङ्के च न्य वीविशत् ॥' इत्युत्सङ्गारोपणम् । तथा 'विना ममोरः कतरत्तवासनम्' इति नैषधे । इति क्रोडे । 'अथ सधर्मिणी । पत्नी सहचरी' इति हैम्याम् । सहचरत्वेन समीपचारिणी । . उत्प्रेक्ष्यते - अर्णवाम्बरेन्दिरायाः समुद्रवसनालक्ष्म्याः क्षोणीश्रियः कबरीं वेणीमिव । किंभूतां कबरीम् । च्युतं शिरस्तः स्रस्तमुत्तरीयमुपर्याच्छादनवसनं यस्याः । पुनः किंभूताम् । नवाः सद्यस्काः भङ्गास्तरङ्गा रचनाश्च विद्यन्ते यस्याम् ॥
व्यवस्यमानामिव जेतुमम्बरापगां तरङ्गैर्गगनावगाहिभिः ।
प्रियेण चाणूरभिदा वियोगिनीं निषेवमानामिव तीर्थमेदिनीम् ॥ १२६ ॥ पुनरुत्प्रेक्ष्यते— गगनावगाहिभिर्नभोङ्गणालिङ्गनशीलैस्तरङ्गैः कल्लोलैः कृत्वा अम्बरापगां स्वर्गगङ्गां जेतुं श्रिया पराभवितुं व्यवस्यमानामुद्यमं कुर्वाणामिव । ' प्रगल्भमानाम्' इति पाठो वा । अर्थः पूर्वोक्त एव । पुनरुत्प्रेक्ष्यते – चाणूरनामानं मल्लं भिनत्ति स्मेति चाणूरभित् तेन विष्णुना भर्त्रा समं वियोगिनीं विरहिणीम् । अत एव वैराग्याद्दु : खोत्थित्यै वा । 'जम्मन्तरे न विहडइ उत्तममहिलाणजं किअं पिम्मम् । कालिन्दिकन्हविरहे अज्जवि कालं जलं वहइ ॥' इति वचनात्कृष्णेन कान्तेन वियोगिनीं वियोगवतीम् ।