________________
काव्यमाला।
स्तोऽन्यो वा योग एषामस्तीति । यदि वा सर्वसांसारिकसङ्गाद्वियोगो विरहः पृथग्भावो विद्यते येषां ते वियोगिनः संयमिनस्तेषां निवृत्ति मोक्षं प्रणयन् कुर्वन् । विरहिणामपि प्राचीनाचीर्णकर्मपरिणतिप्रकटनपूर्व संसारानियतां प्रकटयन धर्मोपदेशप्रदानादिना सुखयन् । मेघस्तु वियोगिनो व्यथयति । पुनः किंभूतः । वापि कुत्रापि स्थाने दुर्दिनं दुष्टं दिवसं न सृजन् । अपि तु प्रतिबोधप्रदानेन धर्ममाहात्म्यात्सुदिवसानेव कुर्वन् । मेघस्तु दुर्दिनं घनघटासंघट्टप्रकटीभवद्विकटान्धकारं करोति । च पुनस्त. . मसामज्ञानाना पाप्मनां वा द्विषं भेदकं ज्ञानिनं साधु वा न द्विषन्न संतापयन् प्रत्युत .. प्रीणयन् । मेघस्तु तमोद्विषं भास्करं चन्द्रं वा द्वेष्टि आवृणोति । पुन: किंभूतः । डलयोरेक्यात् भावप्रधाननिर्देशाच जडत्वस्य जाड्यस्योदयमज्ञानप्रादुर्भावं निर्दलयन् व्यापादयन् । मेघस्तु जलोदयं वर्धते । च पुनर्मनोमवं काममभिभवन् पराजयमानः । । मेघस्तु मदनं मदयति । पुनः किं कुर्वाणः । गुरोः खधर्माचार्यस्य विजयदानसूरेर्महः प्रतापं तेजो वा न निढुवानः प्रकटीकुर्वाणः । मेघस्तु वृहस्पतितारकतेजो निहुते विलुम्पति । पुनः किं कुर्वन् । स्थिरतां संयमधर्मादिषु साहसिक्यात्स्थैर्य वहन् ।' मेघस्तु चपलाशयत्वानकत्र कुत्रचित्तिष्ठति । पुनः किंभूतः । दिवानिशं दिवसे निशायां च जिनानां तीर्थकृतां क्रमाणां पादारविन्दानामुपासनां स्तुतिध्यानप्रणामादिभिः सेवां करोति । मेधस्तु जिनक्रमस्य विष्णुपदस्य सेवां वर्षास्वेव तत्रापि कदाचिन यावद्धर्मकालमत एव गुरोर्मेघादसाधारणता ॥ युग्मम् ॥
क्रमाच्चतुर्मासकवासरान्पयोधरे दधाने बहलीभविष्णुताम् । निनाय तस्मिन्परिवर्ततां धुनी धवेऽब्धिशायीव गणेन्दिरावरः ॥१३२॥ गणेन्दिरावरस्तपागच्छलक्ष्मीपतिः तस्मिन्नागरानगरे क्रमात्पर्युषणादिपरिपाट्या चतुमासकवासरान् वर्षाशरतुदिनान् परिवर्ततां क्षयभावं निनाय अतिक्रामति स्म । 'कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्तः परिवर्तश्च' इति हैम्याम् । संपूर्णतां प्रापयामास । कस्सिन्सति। पयोधरे जलवाहे घने बहलीभविष्णुतां दशभ्योऽपि दिग्भ्योऽभ्येत्य समुन्नम्य समुन्नम्य अखण्डवारिधारावर्षणशीलतां दधाने सति। क इव । अधि. शायीव । यथा समुद्रशयनशीलो विष्णु: वर्षासु नारायणः शेषशय्यायां समुद्रे शेते इति लोकरूढिः । यदुक्तं चम्पूकथायां वर्षावर्णने-क्षीरसमुद्रनिद्राणवाणबाहुच्छिदि' इति । वारिधी वर्षा वासरान्परिवर्ततां लम्भयति ॥ इत्यागरानगरे चातुर्मासकरणम् ॥
ततोऽल्पकर्मा तपसेव संसृति प्रतीर्य पोतेन पतङ्गनन्दनाम् ।
अरिष्टनेमेर्जनुषा पवित्रितं प्रतस्थिवाञ्छौर्यपुरं प्रति प्रभुः ॥ १३३ ॥ ततश्चतुर्मास्या अनन्तरं प्रभुः सूरिः शौर्यपुरं प्रति प्रतस्थिवान् प्रचलितः । किंभूतं शौर्यपुरम् । अरिष्टनेविंशतितीर्थकृन्नेमिनाथस्य जनुषा जन्मना पवित्रितं पावनीभूतम् । किं कृत्वा । पोतेन यानपात्रेण कृत्वा पतनन्दनां सूर्यपुत्रीं यमुनां प्रतीर्य