________________
१४ सर्गः] हीरसौयाथ्वम् । जायमानत्वेन विष्णोः। 'एनं महखिनमुपैहि सदारुणोच्चैः' इति नैषधे । महस्शब्दः सकारान्तोऽप्युत्सववाची वर्तते । 'महस्तेज उत्सवश्व' इति तद्वृत्तिः । पुनः किंभूतः । श्रिया चतुस्त्रिंशदतिशयलक्ष्म्या तस्याः कादाचित्कत्वेन सदा केवलोत्पत्तिं मर्यादीकृत्य महानन्दनगरावाप्तिपर्यन्तमष्टमहाप्रातिहार्यलक्ष्म्या युक्तो जिनस्तीर्थकृदन्यतरः श्राद्धत्वेन तं सेवते इत्येवंशील: नृपः, तथा श्रिया पाथोधिपुच्या युक्तस्तस्याः पतित्वालक्ष्मीयुक्तत्वं जिनो विष्णुस्तत्पदसेवितं विष्णुपदे व्योम्नि स्थितिमत्त्वेन भानुः कमलाकलितकुण्ठवासिनः समुद्रशायिनो जिनस्य वैकुण्ठस्य पादमंशं शीलत्येवंशीलं कृष्णस्यांशावतारत्वेन न सर्वावतारित्वं किं तु दशानामप्यंशावतारित्वमेव । गुरोर्ब्रहस्पतेः खर्गस्थायुकत्वेन निजकृष्णस्य सेवनं सुकरमेव । गुरोस्त्वन्यतरः कश्चिजिनो बौद्धो विष्णुरहन्वा एतेषामन्यतरशासनस्थत्वात्। पुन: किंभूतम् । मित्रं सखायं राजन्यपि कुत्रचित्सेवकादौ हितान्वेषित्वेन मैश्यं संभाव्यते न सर्वेऽपि नृपाः कृतघ्नाः । यदुक्तम्-'मुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु नारीषु। स्वामिनि सौहृदयुक्त निवेद्य दुःखं सुखीभवति ॥' इति सूत्रोक्तत्वात् । तथा भाखान्मित्रनामा कुमोदत्वात् मित्रवत्सर्वजनानां दैत्याग्रुपद्रवनिराकरणेनानन्दोत्पादत्वाद्विष्णोर्गुरोस्तु । 'प्राप्ते षोडशमे वर्षे पुत्रं मित्रमिवाचरेत् ।' पुत्रमिव शिष्यमपीति । तत्त्वतस्तु सूर्यमेव विधुरं कष्टभाजमस्तंगतं मरणावस्थां प्रपन्नं सूर्यस्य वैधुर्यमस्तादेव ॥ इति षष्ठं रात्रिभोजनम् ॥
कदापि नैमित्तिकवत्तपस्विनो निमित्तमेते ब्रुवते न किंचन । यतश्चरित्रेण निमित्तभाषणात्तमिस्रपक्षाद्विधुनेव हीयते ॥ १० ॥ हे साहे, एते पूर्वोक्तषड्व्रतपालकाः प्रत्यक्षा वा श्रीमदाकारितागताः पुर उपविधास्तपस्विनः साधवः कदापि कस्मिन्नपि व्यतिकरे नैमित्तिकवनिमित्तज्ञा इव किंचन अङ्ग-स्वप्न-खर-भौम-व्यञ्जन-लक्षण-उत्पात-अस्तरिष्टम् एतेष्वष्टसु निमित्तेषु किमपि निमित्तं ग्रहवाराङ्गस्फुरणशकुनखरादिकं न ब्रुवते न कथयन्ति । अथ वा ज्योतिषिका इव किमपि शुभाशुभादिग्रहविचारं न भाषन्ते । यतः कारणात्तस्य निमित्तस्य अष्टाङ्गनिमित्तानां वा ज्यौतिष्कादेर्वा भाषणात्कथनाच्चारित्रेण संयमेन हीयते क्षीयते । केनेव । विधुनेव । यथा तमिस्रा कृष्णात्पक्षात् विधुना चन्द्रेण क्षयः प्राप्यते क्षीणीभूयते । यदुक्तमुराध्ययने-'जेलकेणं च सुविणं च अंगविज्जं च जेपउं जंति न हुते समणावुच्चंति । एवमायरियेहिं अकोपम् ।' इति ॥ इति सप्तमं निमित्ताद्यभाषणव्रतम् ॥
इति व्रतान्सप्त विभर्ति संयतव्रजः शिवश्रीपरिरम्भलोलुपः वसुंधराभोग इवाम्भसां प्रभूञ्छिखाः शिखीव घुमणिर्हयानिव ॥६॥ हे साहे, संयतानां सर्वविरतिभाजां साधूनां व्रज: समुदाय इत्यमुना प्रकारेण पूर्वव्यावर्णितस्वरूपान् सप्तसंख्याकान् व्रतानियमविशेषान् बिभर्ति धत्ते । किंभूतः । शिवश्रिया मोक्षलक्ष्म्या परिरम्भे आलिङ्गने लोलुपः लालसः । क इव विभर्ति । वसुंधरा.