________________
काव्यमाला।
वहन्ति पञ्च व्रतिनो महाव्रतान्यमूनि वक्राणि मृगाङ्कमौलिवत् । भजन्ति दन्तद्वितयीं गजा इवापरामिमां देव पुनव्रतद्ववीम् ॥ १७॥ हे साहे, तिनो नियमवन्तः साधवः अमूनि प्राणातिपातविरमण-मृषावादविरमणअदत्तादानविरमण-विषयभोगविरमण-परिग्रहविरमणलक्षणानि पञ्चसंख्याकानि महाव्रतानि मेरुवदुरुद्धराण्यतिशायिनो नियमान् वहन्ति धारयन्ति । किंवत् । मृगाङ्कमौलि. वत् । यथा चन्द्रशेखरः शिवः पञ्चप्रमाणानि वापि वदनानि विभर्ति। 'पञ्चमुखोऽष्टमूर्तिः' इति हैम्याम् । अथ वा 'महामृगारिवत्' इति पाठः । यथा मृगाणां हस्तिनामरयः केसरिणः पञ्च वक्राणि बिभ्रति । 'पञ्चास्यो नखरायुधः' इति हैम्याम् । हे देव, पुनः साधवः इमामग्रे वक्ष्यमाणामपरां पञ्चमहानतानि उपरितनी व्रतद्वयीं भजन्ति श्रयन्ते । के इछ । गजा इव । यथा हस्तिनो दन्तद्वितयी दन्तकोशयुगलं दधते ॥ इति पञ्चमहाव्रतखरूपम् ॥ निशाशनं नीतिजुषा निषिध्यते परिप्लुतापानमिवावनीपते । निशाशनेभ्योऽपि वरं विहंगमा निशि त्यजन्तो यतिवज्जलाशने ॥१८॥ हे अवनीपते, नीतिजुषा न्यायधर्मवता धर्मे मुनिष्ठावता पुरुषेण परिप्लुतापानं मदिरा. पानमिव । 'गन्धोत्तमाकल्पमिरापरिपुताः' इति हैम्याम् । निशाशनं रात्रिभोजनं निषिध्यते निवार्यते वयं नाद्रियते । हे नृपते, निशायां रात्रावशनं भोजनं येषां ते निशाशना रात्रिभोजनास्तेभ्यो जनेभ्यः सकाशात् विहंगमाः पक्षिणोऽपि वरं समीचीनाः । वरमिति समीचीनार्थेऽपि दृश्यते । यथा सिन्दूरप्रकरे-'वर क्षिप्तो हस्तः कुपितफणिनो वक्रकुहरे वरं झम्पापातो ज्वलदनलकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विरचितो न जन्यं दौर्जन्यं तदपि विपदा सम विदुषाम् ॥' इति । किं कुर्वन्तः । यतिवन्मुनय इव । निशि रात्रौ जलाशने पानीयान्ने त्यजन्तो मुञ्चन्तः न भुजन्तः पिबन्तश्च ॥
गवामधीशं भुवनोपकारिणं महस्विनं श्रीजिनपादसेवितम् । अवेत्य मित्रं विधुरं विधीयतेऽशनादि यत्सा कथमौचिती सताम् ॥१९॥ हे साहे, गवामधीशं राजानं पति भास्करं धेनूनामधीशं कृष्णं नन्दगोपाङ्गजत्वागोकुलवासित्वाद्रजनाथत्वाच्च गवां वाचामधीशं वागीशत्वाद्गुरु वाचस्पतिमध्येतारं विधुरमस्तप्राप्तं मृतम् । 'दिष्टान्तोऽस्तं कालधर्मः' इति हैम्याम् । अवेत्य ज्ञात्वा यदशनादि भोजनप्रमुखं रङ्गसुखकारणं विधीयते क्रियते, सा सतामुत्तमानां कथमौचिती केन प्रकारेण योग्यता । अपि तु नैव । किंभूतत्य । भुवनोपकारिणः । जगतो भूलोकस्य पाल. नादुपकारको राजा द्यावापृथिव्योरुद्दयोतकर्तृत्वात्सदसन्मार्गप्रकाशत्वान्मित्रत्वाच्चोपकर्ता भास्वान् जगदुपद्रवकृत्यनिवारकत्वात्पालकत्वात्सृष्टरुपकर्ता कृष्ण: अज्ञानान्धकारच्छेतृत्वात् ज्ञानविवेकदायकत्वाद्गुरुः । पुनः किंभूतम् । महस्विनं प्रतापवन्तं नृपं किरणमालिनं भानुमुत्सववन्तं कृष्णं विद्यावत्त्वात्सर्वदाप्युत्सववत्त्वाद्गुरुः । अद्याप्युत्सवानां