________________
१४ सर्गः
हीरसौभाग्यम् ।
यित्वा दृष्टिं दृशं दिदेश दत्तवान् । क इव । द्विरदद्विषन्निव । यथा दन्तिनां प्रतिपक्षः सिंहः कण्ठं विभुज्य दृशं दत्ते । केसरी अग्रे गच्छन् पश्चाद्विलोगयतीति तत्वभाव एव । 'गिरः विभुरि विभुज्य कण्ठम्' इति नैषधे । ततोऽग्रे कियदागस पश्चात् दृष्टिदानानन्तरमेष साहिरनगारपारीन्दस्य साधुसिन्धुरारातः सूरेः । अथ वा अनगारेषु मु. निषु पारीन्द्राः दुर्वादिवारणवित्रासकत्वेन कण्ठीरवाः । अथ वा यतिषु मुख्याः । 'स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥' इति हैम्यामुक्तत्वात् । तादृशान् मुनीन् श्रमणानजूहवदाकारयामास । एष किं कुर्वन्। यत्र सूरिणा सार्ध मिलितास्तत्रैव स्थितांस्तिष्ठतः अथ वा तत्रैवा/भूय स्थिति कुर्वतो गवेषयन्पश्यन् ।।
सुरैरिवेन्द्रः कलभैरिव द्विपो ग्रहैरिवार्कश्च शशीव तारकैः । अदिद्युतद्वर्त्मनि सूरिवासवोऽनुगम्यमानो मुनिपुंगवैस्ततः ॥ ५ ॥ ततस्तेषां साहिनाकारणानन्तरं मुनिपुंगवैचिंयमवृषभैरनुगम्यमानो वर्त्मनि त. स्मिन्नेव चित्रशालिकाध्वनि सूरिवासवः अदिद्युतत् । क इव । सुरैर्वृन्दारकैः इन्द्रः पुरंदर इव । पुनः क इय । कलभैः त्रिंशद्वर्षीयस्तम्बेरमर्द्विपः षष्टिहायनयूथनाथ इव गजेन्द्र इव । पुनः क इव । ग्रहैमङ्गलादिभिरको भाखानिव ग्रहपतित्वात् । 'प्रहाब्जि. नीगोद्युपतिर्विकर्तनः' इति हैम्याम् । तथा जीवाभिगमसूत्रवृत्तौ–'यावान् चन्द्रपरिवारस्तावान् सूर्यस्यापि परिवारः । परमतितेजस्त्वाद्भाखत्पार्श्वे न च दृश्यते।' पुनः क इव । तारकैज्योतिर्भिः शशी चन्द्र इव अनुगम्यमानो दीप्यते ॥
अथाधिरुयोर्ध्वधरां स किंचनात्मना न्यगादीत्पृथिवीपुरंदरः । दुलीचकाख्यास्तरणं व्रतीश्वराः पुनन्तु भूपीठमिव क्रमाम्बुजैः ॥ ६ ॥
अथ साधूनां सूरिसंनिधावाहानानन्तरमात्मना स्वेन किंचन स्तोकमात्रां सोपानत्रयमयीमुच्चैरूर्वधरां सोपानत्रिकेणैव कृत्वा उच्चैर्भूमीमधिरुह्य अध्यास्याश्रित्य वा स पृथिवीपुरंदरो भूपो न्यगादीद्वभाषे । तदेवाह-हे व्रतीश्वराः सूरयः, राज्ञामुपवेशनोचितं विचित्रचित्ररचनाच रमणीयं लोकप्रसिद्धया दुलीचा इत्याख्या नाम यस्य । खार्थे कः । दुलीचकाख्यमस्मत्सभागमनागमनभूमेः आस्तरणमाच्छादनं क्रमाम्बुजैनिजचरणकमलन्यासैः पुनन्तु पवित्रीकुर्वन्तु । किमिव । भूपीठमिव । यथा क्षोणीमण्डलं खपादपद्मः पवित्र्यते ॥
गुरुर्जगादेति कदापि कीटिका भवेदधोऽस्मिन्न पदं दधे ततः । नृपोऽभ्यधादत्र न कश्चनासुमान्भवेत्सुराणामिव मन्दिरे नरः ॥ ७ ॥ गुरुः सूरिरित्यग्रे वक्ष्यमाणं जगाद वदति स्म । इति किम् । हे साहे, अधो दुलीचकस्याधस्तात् भूप्रदेशे कदाचिदपि दैवयोगात्कीटिकापि चरन्ती तिष्ठन्ती वा भवेत् । ततो जन्तुजातपालनादिहेतोरहमस्मिन्दुलीचके एतावता दुलीचकास्तरणोपरि कदापि कस्मिन्नपि प्रतावे पदं चरणं न दधे न मुञ्चासि । चक्षुरदृष्टभूमी कथमपि क्रम