________________
काव्यमाला।
चतुर्दशः सर्गः। अथ प्रदेशीव स केशिनामुना विधातुकामः सुकृतस्य संकथाम् । इदं महीन्दुर्मुनिचन्द्रमब्रवीत्पुनन्तु पूज्या मम चित्रशालिकाम् ॥ १। अथ साहिजातानामाशीर्वाददानानन्तरं स महीन्दुर्वसुधासुधांशुरकब्बरसाहिर्मुनि चन्द्र हीरविजयसूरि प्रति इदमेतदने वक्ष्यमाणमब्रवीद्वभाषे । किंभूतः सः । अमुना सूरिणा समं सुकृतस्य धर्मस्य संकयां वार्ताम् । धर्मगोष्ठीमित्यर्थः । विधातुकामः कर्तुमिच्छन् । क इव । प्रदेशीव । यथा प्रदेशी नामा राजा केशिना श्रीपार्श्वनाथापत्यकेशिग: णधरेण साधैं धर्मसंकथां कर्तुकाम आसीत् । इदं किम् । हे पूज्या जगन्मान्या भगवन्तः, मम चित्रशालिकां पुनन्तु पवित्रीकुर्वन्तु ॥ ततः ककुद्मानिव भूमिमानसौ तमित्युदीर्य क्रमचर्ययाचरत् । ..
सहामुना सूरिरपि व्यसीसृपहिडौजसा सूरिरिवामृतान्धसाम् ॥ २॥ - ततः सूरेश्चित्रशालिकायामाकारणानन्तरं तं सूरिमिति पूर्वोत्तमाकारणलक्षणमुदीर्य कथयित्वा ककुद्मान्मत्तवृषभ इवासावकब्बरो भूमिमान् क्षितिपतिः क्रमचर्यया चरणच. क्रमणेन अचल(र)त्पुरः प्रस्थितः । अपि पुन: सूरिर्गुरुरपि अमुना साहिना सह समं व्यसीसपद्रिसर्पति स्म जगाम । क इव । सरिरिव । यथा अमृतान्धसांसधाशनानां देवानामाचार्यः उपलक्षणादिन्द्रस्यापि । यदुक्कं नैषधे-'ईदृशीं गिरमुदीर्य बिडीजा जोषमासनविशिष्य बभाषे । नात्र चित्रमभिधाकुशलत्वे शैशवावधिगुरुर्गुरुरस्य ॥' इति बृहस्पतेरिन्द्रस्याचार्यत्वम् । सूरिः कलाचार्यों वाचस्पतिर्बिडौजसा शक्रेण समं कार्यवशात्प्रचलति ॥ धरातुराषाट् शमिनां शशी पुनः पथि प्रयान्तौ श्रयतः परां श्रियम् । कथंचिदुर्व्यामिव केलिशालिनौ विभावरीवल्लभभानुमालिनौ ॥ ३ ॥ धरातुराषा भूमीन्द्रः । धरातुरासाहि. मदर्थयाच्या कार्या न कार्यान्तरचुम्बिचित्ते' इति नैषधे । पुनः शमिनां शशी साधूनां सुधाकरः सूरिः । द्वावपि पथि चित्रशालिकावत्मनि प्रयान्तौ गच्छन्तौ सन्तौ परां प्रकृष्टां श्रियं शोभा श्रयतो लभेते। उत्प्रेक्ष्यतेकथंचित्केनापि कुतूहलादिना प्रकारेण एकत्र मिलित्वा उया भूमण्डले केलिभिः क्रीडाभिः शालते शोभते इत्येवंशीलौ विभावरीवल्लभभानुमालिनी चन्द्रसूर्याविव । तस्मिन् समये सूरिदर्शनादतीव शान्तीभूतः साहिश्चन्दतुल्यः, सूरिस्तु पुण्यप्रतापा. त्तदाधिकं दीप्यमानत्वाद्भानूपमो दृश्यते ॥
विभुज्य कण्ठं क्षितिपाकशासनो दृशं दिदेश द्विरदद्विषन्निव । तथा स्थितानेष गवेषयंस्ततोऽनगारपारीन्द्रमुनीनजूहवत् ॥ ४ ॥ क्षितिपाकशासनो धात्रीसुत्रामा साहिः कण्ठं प्रीवां विभुज्य चक्रीकृत्य पश्चाद्वाल.