________________
१३ सर्गः] हीरसौभाग्यम् । प्रीतिभरेण प्रेमातिशयेन मनोहार्दैन वा प्रभोर्गुरोर्दर्शनमालोकनं तदेव नामधेयमभिधा यस्य । 'नामरूपभागाह्वय-'इति हैमीवृत्तौ । ततो नामधेयरूपधेयमागधेयानि इति प्रयोगाः । तादृशं सुधारसममृतनिस्यन्दं पायं पायं पीत्वा पीत्वा । 'पौनःपुन्ये णम्पदं द्विश्व, पायं पायं भोज भोजं व्रजाते' इति सारखतव्याकरणे ॥
पुरो न मे किंचन तेन वृत्तं त्वया गुरूणां प्रतिपाद्यते स । यतः खसद्माभिमुखीभविष्णुमुपेक्षते कः सुरसौरभेयीम् ॥ १९८ ॥
हे स्थानसिंह, तेन कारणेन गुरूणां तव धर्माचार्याणां हीरसूरीणां वृत्तं साध्वाचारादिकमाचरणं ने मत्पुरोऽप्रे त्दया किंचन किंचिदपि न प्रतिपाद्यते स्म न प्रोक्तम् । युक्तोऽयमर्थः । यतः कारणात् खस्यात्मनः गृहस्याभिमुखीभविष्णुं समनः संमुखभवनशीलां मन्दिरे समागच्छती सुरसौरभेयी कामधेनुं को जन उपेक्षते । अपि तु न कोऽपि । सर्वोऽप्यायान्ती समीहते ॥
रामाङ्गजो मध्यमलोकपालवत्रादिदं वाङ्मयमभ्युदीतम् । निपीय भृङ्गो मकरन्दमम्भोरुहादिवामोदभरं बभार ॥ १९९ ॥
वर्गपातालयोरपेक्षया मध्यमः अधः पातालमुपरि च खर्गः तयोर्मध्यवर्ती मध्येवर्ती मध्येभवो मध्यमस्तादृशो लोको विश्वभुवनं तस्य पालयिता अकबरस्तस्य वकाद्वदनादभ्युदीतं प्रकटीभूतं वाङ्मयं वाक्प्रपञ्चम् । वचनरचनामित्यर्थः । 'इतीदृशैस्तं विरचय्य वाङ्मयैः' इति नैषधे । “एवंविधैः वचःप्रपञ्चैः' इति तद्वृत्तिः । रामाङ्गजः स्थानसिंहो निपीय सादरमाकर्ण्य आमोदभरं प्रमोदातिशयं बभार। क इव । भृङ्ग इव । यथा भ्रमरः अम्भोरुहात् पद्मादुदीतं मकरन्दं निपीयाखाद्य आमोदभरं परिमलातिरेकप्रमोदाधिक्यं धत्ते ॥ इति स्थानस्य साहेः प्रश्नोत्तरम् ॥
शशंस सभ्यानथ पार्थिवेन्दुरानेतुमेतानिह केन जग्मे । तेऽप्यूचुरुर्वीन्द्रमजय्यवीर्यमिवावतीर्ण भुवि कार्तवीर्यम् ॥२०॥
अथ स्थानसिंहस्य कथनानन्तरं पार्थिवेन्दुः राजराजः सभ्यान् खसभासदः पुरुषान् प्रति शशंस कथयति स्म । किं शशंस तदेवाह-एतान् सूरीन्द्रानिह मत्पार्श्वे मानेतुमाकारयितुं केन जग्मे गतम् । ततः ते सभ्या अपि उर्वीन्द्रं वसुधावासवम् ऊचुर्बभाषिरे । उत्प्रेक्ष्यते-भुवि पृथिव्यामवतीर्णमुत्पन्नं तथा अजय्यं परैर्जेतुमशक्यं वीर्य पराक्रमो यस्य तादृशं कार्तवीर्य बाहुसहस्रार्जुनमिव अजय्यबलत्वे । 'कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् । तस्य सादृश्यं वीर्यातिशयात् ॥
मौन्दीकमालाविति नामधेयौ निदेशतः शासनहारिणौ वः । इतोऽजिहातामिव मूर्तिमन्तौ लेखौ वलेखाविव कामचारौ ॥ २०१॥ हे प्रभवः, वो युष्माकं निदेशतः आदेशमङ्गीकृत्य एको मौन्दी अपरः कमाल इति