________________
काव्यमाला।
सारवत् यया शरत्कालसंबन्धी वप्पीहो मौनं धत्ते । वर्षासु तृषाक्रान्ततया जलपानार्थमुन्नमत्रीरदपुरस्ताहालप्यालप्य शरदि जलधराभावातूष्णीं विधत्ते ॥
किमुत्तरं स्यादिह मन्दधीवन्मीमांसते यावदसौ हृदीति । स दीर्घदर्शीव शशी रसायास्तं संशयानं प्रतिशंसति स्म ॥ १९४॥ मन्दा कुण्ठा घोर्बुद्धिर्यस्य सोऽल्पमेधा इव यावदसौ स्थानसिंहो हृदि निजमनसि इति मीमांसते विचारयति । इति किम् । यदिह साहिनिगदितवाक्ये किमुत्तरं प्रतिवचः - स्यात् । तावहादप्रे खपरेषां भावि हिताहितं पश्येत् खमनीषया विचार्य जानीयात्स दीर्घदशी तद्वत् रसायाः शशी क्षोणीक्षणदापतिरकब्बरसाहिः संशयानं संदेह विदधानं स्थानसिंह प्रतिशंसति प्रश्नयित्वा स्वयमेवोत्तरयांचकार ॥
एतद्वयं मानसमानसाङ्के वलक्षपक्षीकरवाम कामम् । इदं त्वयाचिन्त्यत पुण्यलक्ष्मीमाकाङ्क्षता क्षीरधिशायिनेव ।। १९५ ॥ हे स्थानसिंह, काममत्यर्थे वयमेतदने वक्ष्यमाणं भवन्मनसि वर्तमानं वा मानसं मदीयमनसस्तदेव मानसं नाम सरस्तस्याङ्के कोडे वलक्षपंक्षीकरवाम हंसायमानं विद. धाम इत्याशी प्रेरणयोरत्तमपुरुषबहुवचनम् । यदुक्तम्-‘कान्तारे निर्गतासि प्रियसखि पदवी विस्मृता किं तु मुग्ध मा रोदीरेहि यामेत्युपहृतवचसो निन्युरेनां वयस्य' इति नैषधे । यामेत्याशीरुत्तमपुरुषबहुवचनमपि । वयमेव हृदि विन इत्यर्थः । हे स्थानसिंह, त्वया भवता इदं मयोच्यमानमचिन्त्यत ध्यातं हृदि विचारितम् । त्वया किं कुर्वता । पुण्यलक्ष्मी धर्मश्रियमाकाहता वाञ्छता । केनेव । क्षीरविशायिनेव । यथा दुग्धवाघों शेते खपित्येवंशीलेन कृष्णेन पुण्या पतिव्रतात्वेन पवित्रा श्रीः कासयते ॥
खमण्डले भूतलशीतभासानीयन्त एते यदि सूरिशकाः । सुधाशनाम्भोनिषिवल्लभाया भगीरथेनेव पयःप्रवाहाः ॥ १९६ ॥ यदि एते सूरिशकाः हीरसूरीन्द्राः भूतलशीतभासा साहिना । 'इदं तमुर्वीतलशीतल. द्युतिम्' इति नैषधे । खमण्डले निजजनपदे आनीयन्ते आकार्यन्ते । केनेव । भगीरथेनेव । यथा सुधाशनानां देवानामम्भोनिधिवल्लभा समुद्रपत्नी नदी सुरसरिद्गङ्गा तस्याः पयःप्रवाहाः जलप्लवाः भगीरथनाम्रा भूमीन्दुना भूपालेन खदेशे समानीयन्ते । 'गङ्गा भगीरथेनेव पूर्वेषां पावनक्षमा । इच्छता संततिं तेन न्यस्ता मन्त्रिषु कोशला ॥' इति रघौ । तथा 'गङ्गामिव क्षितितलं रघुवंशदीपः' इति नैषधेऽपि ॥
सुधारसं प्रीतिभरण पायं पायं प्रभोर्दर्शननामधेयम् । तदा भजामो वयमप्यमा इव खभावादजरामरत्वम् ॥ १९७ ॥
तदा वयं मेवातमण्डलश्राद्धवर्गा अपि अमन्या देवा इव खभावात्सहजेनेव अजरामरत्वं जरामरणराहित्यम् । अजरामरभावमित्यर्थः । भजाम आश्रयामः । किं कृत्वा ।