________________
१३ सर्गः]
हीरसौभाग्यम् ।
हे शेख, तेन कारणेन येनाहं कार्यान्तरेण गृहान्तर्जिगमिषामि ततोऽधुना तदाकारणानवसरः तेन हेतुना त्वं क्षणं क्षणमात्रं मुहूत यावद्रोहीरसूरेः पदाम्भोजयोश्चरणारविन्दयोर्यद्रजः परागस्तदेवामृतं सुधारसः । त्वत्पादपङ्कजरजोमृतदिग्धदेहाः' इति भक्तामरस्तववचनात् । अथ वा अमृतं पानीयं तेन कृत्वा खस्यात्मनो धानो वासगृ. हस्य धरणी भूमी पवित्रय पावनीकुरु । पावित्र्यं प्रक्षालनात् । प्रक्षालनं तु पानीयेनैव स्यात् इति । किंलक्षणां धरणीम् । अमन्ना निरपराधानां जन्तूनां प्राणिनां व्ययो विनाशो घातस्तस्य पातकेन पापेन कृत्वा अस्पृश्यां स्प्रष्टुमप्ययोग्यां प्रणीतां कृताम् । अथ च योऽस्पृश्यः कथंचित्रातः स लोकव्यवहाराद्वारिप्रक्षालनादेव स्पृश्यो भवेदिति रीतिः । इति गर्भोत्प्रेक्षा ॥ .
इदं निगद्याब्धिगभीरघोषं जोषं मुखे भूमिधवो विधाय । जगाम गेहं गृहिणीसनाथं विद्युद्विलासीव गभस्तिरभ्रम् ॥ १२७ ॥ भूमिधवः पृथ्वीपतिः अकब्बरपातिसाहिः गृहिणीभिः खकलौः सनाथं संयुक्तं गृहं खसौधं जगाम गतवान्। क इव । गभस्तिरिव । यथा भानुमान् विद्युद्भिः सौदामिनीभिविलसति शोभते इत्येवंशीलमभ्रं वर्दलकं 'वादलु' इति प्रसिद्धं मेघ वा गच्छति । किं कृत्वा । इदं पूर्वप्रोकं शेखपुरो निगद्यालप्य । कथम् । अब्धिवत् समुद्र इव गभीरो मन्द्रो घोषो ध्वनिर्यत्रैवंविधं यथा स्यात्तथा । अकबरसाहेः शब्दस्तु नवहस्तकव्याब्रवद्रुारवं कुर्वन्नासीत् ततो घोष इत्युक्तिः । पुनर्मुखे निजवदने जोषं मौनं विधाय कृत्वा । 'तूष्णीं तूष्णीकां जोषं च' इति हैम्याम् । तथा 'जोषमासनविशिष्य बभाषे' इति नैषधे ॥ इति सूरिसमागमस्य साहेनिवेदनम् ॥ : घनादधीतामिव शेखशको वाणी समाकर्ण्य हमाउंसूनोः ।
निरीय तस्याः सदसो बभाज भुवं व्रतीन्द्रेण विभूष्यमाणाम् ॥१२८॥
शेखेषु सकलतुरुष्कगुरुषु शक्रः इन्द्रः साहिः । मान्यत्वादिन्द्रत्वम् । तस्याः सदसोऽकब्बरसभाया निरीय बहिर्निर्गत्य व्रतीन्द्रेण सूरिणा विभूष्यमाणामलंक्रियमाणां भुवं भूमीभागं बभाज । सूरिसमीपे समीयिवानित्यर्थः । किं कृत्वा । हमाउंसूनोहमाउंनामा पातिसाहिस्तस्य मूनोः पुत्रस्याकब्बरसाहेर्वाणी समाकर्ण्य सम्यक् सादरं श्रुत्वा । उत्प्रे. क्ष्यते-गभीरधीरत्वात् घनात् नभस्य सजलजलधरात्सकाशात् अधीतां पठितामिव ॥
भक्त्या नताङ्गो बहुमन्यमानः स्वमन्दिरं सूरिपुरंदरं सः।। निनीषति माखिलशेखपूषा नाशंसते निर्नरशाखिनं कः ॥ १२९ ॥ अखिलेषु शेखेषु म्लेच्छजातिमान्येषु तजातीयेषु वा पूषा महत्त्वाद्दीप्यमानत्वा. द्भास्करः अबलफैजशेख: सूरिपुरंदर हीरविजयसूरीन्द्रं खमन्दिरं निजनिवाससदनं निनीषति स्म नेतुमिच्छति स्म। किंभूतः । मक्त्या दर्शनादुतपरमप्रीत्या कृत्वा