________________
११४
काव्यमाला। अयै मुदासाम्बुभिरुल्लसद्भिस्तनूरुहैर्गौरवमादधानः । पैलेषयोः प्राघुणकी प्रणीय वाचं बभाषे पुनरेष शेखम् ॥ १२३ ॥ एष पातिसाहिः शेख अबलफैजनामानं बभाषे वक्ति स्म । किं कृत्वा । वाचं सूरिसमागमनसूचकशेखवाणी पैजूषयोः कर्णयोः प्राघुणकीमभ्यागतां प्रणीय कृत्वा । अथातिथेरातिथेयीकृता विलोक्यते। तामेवाह-मुदा सूरिसमागमश्रवणोद्भूतप्रमोदेन अस्राणि बाष्पाणि तेषां अम्बुभिः जलेरये पादधावनजलमादधानः कुर्वाणः । ददान . इत्यर्थः । पुनरुल्लसद्भिस्तनूरुहै रोमभिः । 'लोमरोमतनूरुहम्' इति हैम्याम् । कृत्वा गौरवमभ्युत्थानादिक्रियामादधानः सृजन् ॥
ऋतौ वसन्तेऽवनिजन्मनेव समीयुषि श्रीश्रमणावतंसे । मनोरथेनाद्य मम प्रवीणचूडामणे पल्लवयांबभूवे ॥ १२४ ॥ हे प्रवीणानां निपुणानां विदग्धानां मध्ये चूडामणे कोटीरहीरायमाण, श्रीमति श्रमणानां मध्येऽवतसे शेखरे श्रीहीरविजयसूरीन्द्रे समीयुषि पादावधारिते सति अद्य सांप्रतीने वर्तमाने वासरे मम मनोरथेनाभिलाषेण पल्लवयांबभूवे सफलीभूयते स्म । केनेव । अवनिजन्मनेव । यथा वसन्ते ऋतौ मधुसंमये संप्राप्ते सति अवनिजन्मना । जातिवाचित्वादेकवचनम् । समस्ततरुसमुदायेन पल्लवकलितेन उपलक्षणात् प्रवालैः कुसुमैः फलैश्च संयुक्तैर्जायते ॥
द्रक्ष्यामि दियाद्य मुनीन्द्रचन्द्रमिवानुबिम्बं परमेश्वरस्य । शेखाधुनाहं नियतेर्वशेन किं चास्मि कार्यान्तरचुम्बिचेताः ॥ १२५ ॥ हे शेख, दिष्ट्या भाग्येन कृत्वा अद्य विद्यमाने अस्मिन् वासरे एवं मुनीन्द्रेषु सर्वेषु सूरिष्वालादकत्वेन चन्द्रमिव चन्द्रम् । अथ वा खखशाखासिबाटकानां खामिनो रत्नाधिका मुनीन्द्रास्तेषां मध्ये अधिकं दीप्यमानत्वात् ज्योतिषामिव स्वामित्वाद्वा तेषां चन्द्र इवेति वा तं द्रक्ष्यामि दृग्गोचरीकरिष्यामि। उत्प्रेक्ष्यते-परमेश्वरस्य परमात्मनो बिम्बं प्रतिबिम्ब मूर्ति रिव । जैनमते तु बिम्बशब्देन भगवत्प्रतिमा प्रोच्यते। अथ वा साक्षात्परमेशितुबिम्बमिव मूर्तिरिव। तथा 'संसारसिन्धावनुबिम्बमात्रं जागर्ति जाने तव वैरसेनिः । बिम्बानुबिम्बौ तु विहाय धातुर्न जातु दृष्टातिमरूपसृष्टिः ॥' इति नैषधे । परं किं चायं विशेषोऽस्ति । हे शेष, अधुना इदानींतनसमये अहं नियतेर्दैवस्य वशेनायत्तत्वेन कार्यान्तरं किंचित्कृत्यविशेषं चुम्बत्यालिङ्गतीत्येवंशीलं चेतो मानसं यस्य कार्यान्तरेण व्यग्रमना अस्मि । एतत्कथनं त्वप्रतिवुद्धत्वेन अज्ञाततत्त्वभावेन म्लेच्छत्वेन वा । यद्यास्तिकः स्यात्तदा तु सर्वमपि त्यक्त्वा वन्दत एवेति ॥
अमन्तुजन्तुव्ययपातकेनास्पृश्यां प्रणीतां धरणीं स्वधाम्नः । शेख क्षणं तेन पवित्रय त्वं गुरोः पदाम्भोजरजोमृतेन ॥ १२ ॥