________________
काव्यमाला।
म्याम् । द्वावपि विशिनष्टि-किंलक्षण: । कुन्दानां विकसितकुसुमसंततिसितीकृतमुचकुन्दद्रुमाणां रुक् कान्तिर्यत्र । पक्षे कुन्दवदुज्ज्वला रुक् कायकान्तिर्यस्य । पुन: किंभूतः। नीरमुग्भिः उन्नमन्नीरदैः कृत्वा नील: श्यामलीभूतः कण्ठः उपत्यकाभाग: शिरःशिखरादधस्तनप्रदेशो यस्य । पक्षे मेघवन्नीलः विषविषमानलज्वालाज्वलितत्वात्कालः कण्टो गलं यस्य । 'दधदम्बुदनीलकण्ठताम्' इति नैपधे । अर्थः पूर्ववत् । पुन: किंभूतः । चन्द्रो विधुरत्युच्चैस्तरत्वात् चूडायामग्रभागे अभ्रंकपशिखरोपरितनप्रदेशे यस्य । पक्षे. चूडायां जटाजूटे यस्य । पुनः किंभूतः । शिवो निरुपद्रवः परैर्ग्रहीतुमशक्यः शिवः । नामा च । पुनः किंलक्षण: । सिंहानां केसरिणां यानानि गमनागमनानि तैरहितः कलितः । पक्षे सिंहयानया पार्वत्या अतिश्चिदितः । तस्या अर्धाङ्गत्वात् । 'प्रसह्य चेतो हरतोऽर्धशंभोः' इति नैषधे । अर्धशंभोरीश्वरस्य शरीरार्धघटनया इत्यर्धशंभुः । पुनः किंभूतः । वातैः पवन: वेलन्त्यश्चञ्चलीभवन्यो या लताः वल्लयस्ताभिस्तद्द्वा कप्त लास्यं नाटकं येन । महानटत्वान्नाट्यप्रियत्वाच्च । पुनः किन्तः । सरिनिर्झररूपा अत्युज्ज्वलत्वात्स्वःसरिद्गङ्गा यस्य । पक्षे निर्झरंतुल्याः गिरीशत्वात् गिरीशो हिमाद्रिरपि । तत्र निर्झररूपैव गङ्गा यत्र । अथवा सरति गच्छति वित्तरतीत्येवंशीला व्यवस्थितविकल्पत्वाद्दीर्घत्वाभावस्तादृशी नित्यवाहिनी खर्वाहिनी यस्मिन् । तथा शैलोऽपि अत्युच्चत्वादतिविस्तारत्वात्पातालमूलत्वाच्च दिग्वासा दशसु दिक्षु वासो वसनं अथवा दशापि दिशो वासांसि वस्त्राणि यस्य सः । 'शिरःस्वःसरित्' इति वा पाठः । तत्र शिरसि अत्युच्चैस्तरत्वान्मस्तके स्वःसरित् गगनगङ्गा यस्य । तथा च वस्तुपालवसतिप्रश. स्तावबुंदाद्रिवर्णने-'मन्दाकिनी घनजटे दधदुत्तमाङ्गे' इति ।।
रत्नसान्वौषधीप्रस्थमुख्यश्रिया मेरुमुख्यक्षमाभृज्जयादर्जिताम् । शृङ्गनिर्गत्वराणां झराणां निभात्कीर्तिमेतां बिभर्तीव मूर्ती गिरिः॥६॥ यो गिरिरर्बुदाचल: शृङ्गेभ्यः स्खशिखरेभ्यो निर्गत्वराणां निःसरणशीलानां झराणां निर्यनिर्झरपयःप्रवाहानां निभाद्याजात् मूर्ती शरीरवतीमेतां जगजनताप्रत्यक्षलक्षा कीर्ति यशोविस्तृतिं बिभर्ति दधतीव । किंभूताम् । रत्नसानूनां मणिमयानां शिखराणां तथा औषधीनां फलपाकावसानिकानां वशीकरणस्वर्णरजतादिकारिकाणां वा लताद्रुमवि. शेषाणां प्रस्थानां विविधधातुरसकूपिकादिस्थानकानामपरशृङ्गाणां मुख्यया प्रकृष्टया श्रिया तत्प्रमुखया वा लक्ष्म्या वैभवेन क्षोभया वा । मेरोमणिशिखराणि, हिमाचले त्वौषधीप्रस्थं शृङ्गम् । अत एव मेरुः खर्णाचलो मुख्यः प्रधानो येषु । मुखे भावो मुख्य आदिर्वा येषु तादृशानां क्षमाभृतां पर्वतानां जयात्पराभवनादर्जितां खायत्तीकृताम् ॥
अर्जुनश्रीदधो मर्त्यमालास्फुरत्कंदरो भद्रसालोल्लसन्नृक्षभूः । बिभ्रतः स्वःसुमेरोरिव स्पर्धया यः पुरं क्वापि धत्ते धरित्रीधरः ॥११॥