________________
१२ सर्गः] हीरसौभाग्यम् ।
५५५ णामुपधेर्घनघटाकपटात् तजयाई तेषां पर्वतानां भूपानां च जयस्य पराभवनस्य अकं चिदं किमु मायूरं मयूरपिच्छसंवन्धि छत्रमातपत्रमिवाधत्ते बिभर्ति स्म । किं कृत्वा । तुङ्गिनः उच्चत्वस्य महिन्नः पराक्रमस्य करितुरगादिपरिवारस्य जात्यादेर्वा महत्वस्य श्रीभिलक्ष्मीभिर्वैभवैर्वा कृत्वा अन्यान्परान् गिरीनराधिपान्वा पराभूय विजित्य खवशीकृत्य वा ॥
अध्वरोद्धः सुधाधामचण्डद्युतोविन्ध्यधात्रीधरस्येव संस्पर्धया । शृङ्गलेखाभिरभ्रंकषाभिर्नभःपद्धति रुद्धवानर्बुदोर्वीधरः ॥ ५६ ॥ . अर्बुदाभिधान उर्वीधरः शैल: अभ्रमाकाशं कषन्ति विलिखन्ति घृष्यन्तीति । 'कषू विलेखने' इत्ययं धातुः । अभ्रंकषास्ताभिर्गगनमण्डलोल्लेखिनीभिः शृङ्गलेखाभिः शिखरराजीभिः कृत्वा नभःपद्धतिं व्योममार्ग रुद्धवानात्मना रुणद्धि स्म । उत्प्रेक्ष्यते-सुधाधामा चन्द्रः, श्चण्डद्युत्सूर्यः, तयोरध्वनो मार्गस्य रोद्धः रोधविधातुर्विन्ध्यधात्रीधरस्य विन्ध्याचलस्य संस्पर्धया संहर्षेणेव असूययेव ॥
क्वापि शृङ्गे विनीले तमालैः शशी यस्य चूडामणीवत्कचानां चये । कापि शोणाश्मशृङ्गे पुनर्भानुमान्प्राग्गिरेः सानुनी वोदयलक्ष्यते॥१७॥ यस्यार्बुदाग्रे क्वापि कुत्रापि स्थाने तमालैः समुल्लसद्बहलदलमण्डलसच्छवितापिच्छपादपैविनीले अतीव श्यामलीभूते शृङ्गे शिखरे शशी चन्द्रमाः कचानां चये कामिनीकेशपाशे चुडामणीवत् चूडारत्नमिव लक्ष्यते ज्ञायते वा । पुनरपरेऽर्थे क्वापि कुत्रापि प्रदेशे शोणाश्मभिः पद्मरागमणिभिनिर्मिते शृङ्गे कूटे भानुमान् सहस्ररश्मिः प्राग्गिरेरुदयाचलस्य सानुनी प्रस्थे उदयन्नभ्युद्गमं लभमान इव लक्ष्यते निरीक्ष्यते ॥
मौलिलीलायमानामृतांशुक्षरन्निझेराम्भःप्रवाहस्वरूपैरसौ।
सातपत्रस्फुरचामरैर्भूभृतां राजभावं बिभर्तीव भूमीधरः ॥ ५॥ ' असौ भूमीधरः अर्बुदाचल: सहातपत्रेण छन्त्रेण वर्तन्ते यानि तानि सातपत्राणि । तथा स्फुरन्ति इतस्ततः प्रसरन्ति चञ्चलीभवन्ति यानि चामराणि रोमगुच्छानि तैः कृत्वा । उत्प्रेक्ष्यते-भूभृतां सर्वपर्वतानां राजभावं खामित्वमाधिपत्यं वा विभर्ति धारयतीव । किंभूतः । मौलौ शिरःशिखरोपरि लीलायमानो लीलया खवशेनाचरन् प्रवर्तमानः प्रचलन्वा अमृतांशुः शीतदीधितिः । तथा क्षरतां शिखरान्तरालेभ्यो निःसरता निर्झराणामम्भमां पानी यान प्रवाहा धारास्ता एवं खरूपमात्मा येषां तैः ॥
कुन्दरुङ्नीरमुङ्नीलकण्ठः पुनश्चन्द्रचूडः शिवः सिंहयानाङ्कितः । वातवेल्लल्लताक्लृप्तलास्यः सरिद्योऽनुयातीव दिग्वाससं किं दिवा ॥१९॥ योऽव॑दगिरिः दिवा दिवसं दिश आशा एव वासोसि वस्त्राणि यस्यासौ दिग्वासा ईश्वरः तमनुयात्यनुकरोति सदृशीभवतीव । 'दिकृत्तिवासा भवनीललोहितौ' इति है