________________
. १२ सर्गः हीरसौभाग्यम् ।
५४३ संजातः पुनस्त्वं मां त्रिलोक्या भुवनत्रयस्योद्योतकं प्रकाशकारं मुज कुरु । यथा यावाथि यो रुद्दयोतं करोमि तथा स्वर्गपातालभूलोकेषु प्रकाशकारकं निर्माहि इत्यर्थः ॥ विभ्रतीभिः खगान्पत्रविभ्राजिनश्चन्द्रहासप्रसूनप्रतानान्वहन् । चैत्यशाखी शिखाभिः श्रिताभिनभः स्वनिवृक्षान्विजेतुं किमुद्यच्छते २१ यत्र धर्मदेशनवेश्मनि चैत्यशासी अशोकतरुरपरी वा वटवृक्षादिसालद्रुमावसानः चलद्रुमः नमो गगनाङ्गणं श्रिताभिः गाहमानाभिः शाखाभिः कृत्वा । उत्प्रेक्ष्यते-खर्गिकृ. क्षान् सुरद्रुमान् कल्पतरून् विजेतुं पराभवितुमुद्यच्छते उद्यमं करोतीव मन्त्रीभवतीव वा । किंभूताभिः शिखाभिः। पत्रैः पक्षविभ्राजन्ते शोभन्ते इत्येवंशीलान् खगान् पक्षिणो वाणांश्च बिभ्रतीभिः धारयन्तानिः । 'वाणपृषक्त विशिखौ खगगर्वपक्षाः' । तथा 'विहग विहंगमखगौ खगगर्धपक्षा आपे' इति हैम्याम् । बैत्यशासी किं कुर्वन् । चन्द्रः सुधाकर: कर्पूरी वा हासो हसितं तयोः श्वेतिना तुल्यानां प्रसूनानां कुसुमानां प्रतानान् स्तवकान् चन्द्रहासखड्गांश्च वहन् बित्राणः । अन्योऽपि सुभटो विरोधिना योद्धमिच्छु: चतुर्विधान्यायुधानि धत्ते। यथा-पाणिमुक्तानि शक्तिप्रमुखानि, यन्त्रमुकानि शरादिकानि, अमुक्तानि शत्रिकाद्यानि, मुक्तामुक्तभेदद्वयात्मकानि दण्डादिमानि, इति । तथैवायं चैत्यतरुः शरग्रहणेन पाणियन्त्रमुक्तयोर्ग्रहणम् । चन्द्रहासग्रहणेन च मुक्तामुक्तचो: संग्रहः । तथा च हैम्याम्-'अस्त्रं तच्चतुर्विधम् । मुक्तं द्विधा पाणियन्त्रमुक्त शक्तिशरादिकम् । अमुक्तं शस्त्रिकादि स्याद्यष्टयाद्यं तु द्वयात्मकम् ॥' इति ॥
देशनामन्दिरे यत्र जाम्बूनदः शक्रकेतुः पुरश्चुम्बति स्माम्बरम् ।
कौतुकान्नाकिलोकं दिदृक्षुः क्षितेस्तीर्थभर्तुः प्रसर्पन्प्रतापः किमु ॥२२॥ - यत्र धर्मदेशनामन्दिरे श्रीजिनराजसमवसरणे जाम्बूनदः वर्णनिर्मितः शक्रकेतुरिन्द्रध्वजः पुरो जिनेन्द्राग्रे अम्बरमाकाशं सहनयोजनप्रमाणत्वेनात्युच्चैस्तरत्वात् चुम्बति स्पृशति । उत्प्रेक्ष्यते-कौतुकात् हृदयमध्येऽतिकुतुहलात् नाकिनां देवानां लोकं भुवनं वासस्थानं स्वर्ग दिदृशुष्टुमिच्छुः क्षितेर्भूमेः सकाशात्प्रसपत्रुच्चैर्गच्छन् तीर्थभतुर्जिनेन्द्रस्य किमु प्रतापः ॥ विप्रलब्धं विधात्रेव रूपश्रिया खं त्रिदश्योऽवयान्ति स्म यद्वीक्षणात् ।
यत्र भान्ति स्म ते शालभजीभराः श्रीसुताम्भोजदृग्विभ्रमभ्राजिनः २३ यत्र श्रीमनिनेश्वरसमवसरणे ते जगत्रयीस्त्रैणजैत्रगात्रलताः शालभञ्जीभराः पाश्चालिकाप्रकराः भान्ति स्म शुशुभिरे । किंभूताः । श्रीसुतस्य कमलानन्दनस्य स्मरस्य अम्भोजकमललोचना स्त्री रतिस्तस्या विभ्रमः शोभा विलासो वा तद्विभ्राजन्ते इयेवंशीलाः । अथ वा रतिवद्विध्रमेण शोभया विलासेन वा शोभनशीलाः । ते के ! येषां पुत्रिकाप्रकराणां वीक्षणाद्दर्शनात् त्रिदश्यः सुराङ्गनाः स्वमात्मानं रूपश्रिया वपुर्वभवेन विधात्रा जगद्यावत्पुरुषयोषिदर्गसगंविधायिना विप्रलब्धं वञ्चितमिवावयान्ति म्म