________________
५४२
काव्यमाला।
षणविशिष्टानामेव तेषां जनानां चतस्रो नरकतिर्यमनुष्यसुरलक्षणाश्चतु:संख्याका अपि गवीर्भवानिराकर्तुमिव निवारयितुमिव वा चत्वारो देहा विहिता धृताः ॥
भाति भागण्डलं राजवैरादिवाप्तस्य पृष्ठे प्रविष्टः प्रणश्यारुणः । ब्रह्मणा यत्र मुक्तः किमचिजो विश्वकृत्तक्षिताङ्गस्य वा भावतः १८ यत्र श्रीजिनधर्मदेशनसदने आप्तस्य तीर्थकृतः पृष्ठे शिरसः पश्चात्प्रदेशे भामण्डलं ज्योतिःपुओ भाति विभ्राजते दीप्यते वा । उत्प्रेक्ष्यते-राज्ञा चन्द्रेण नृपेण वा सह वैराद्विरोधात् चन्द्रोदये वापि प्रणश्य याति खोदये च खकरैरेव प्रातश्चन्द्रश्रियं मुष्णाति । अत एव विरोधः। तस्मात्प्रणश्य प्रपलाय्य आप्तस्य विश्वस्तस्य अयं सर्वथापि प्राणत्यागेऽपि मह्यं कम्मचिदपि न ददााते इति विश्वासं प्राप्तस्य मित्रस्य पृष्ठे प्रविश्य स्थितोऽरुणो भानुमानिव । वाथवा ब्रह्मणा विधात्रा यत्र समवसरणे विश्वकृता देववार्धकिना तक्षितं तनूकृतं 'ताव्यू' इति लोकोत्तया तादृशमङ्गं कायो यस्य । स्वदयितादित्यतेजोसहिष्णुदक्षाङ्गजाभ्यर्थितदेववर्धकिना चक्रभ्रममारोप्य उल्लिखितवपुष इ. त्यर्थः । तादृशस्य भाखतो भास्करस्य अचिंत्रजस्तेजोराशिरिव मुक्तः स्थापितः । 'भारोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्रोलिखितो विभाति' इति रघुवंशे ॥
किं प्रिये पूर्णिमाशर्वरी चन्द्रिका वक्रचन्द्रस्य पत्युर्द्विपार्थी श्रिते । कुन्तलैयक्ते वानुनेतुं वयं राजतोऽभ्यर्णयोश्वामराली प्रभोः ॥१९॥ प्रभोवृषभतीर्थकृतोऽभ्यर्णयोः पार्श्वयोः प्रदेशयोश्चामराली वालव्यजनमाले राजतः शोभते । उत्प्रेक्ष्यते-पत्युः खभर्तुर्वक्रचन्द्रस्य वदनविधोः । द्वयोः पार्श्वयोः समाहारो द्विपावी तामुपान्तद्वन्द्वं श्रिते। किंभूते । प्रिये द्वे कान्ते इव । एका पूर्णिमाशर्वरी राकारात्रिः, अपरा चन्द्रिका ज्योत्स्ना । 'कौमुदी कुमुदिनीभदक्षजारोहिणीद्विजनिशोष. धीपतिः' इति हेम्याम् । द्वयोरपि पतित्वात् द्वे अपि उपेत्य द्विपार्थी श्रिते । चन्द्रकामिन्याविव वाथवा प्रभो भेयदेवस्य कुन्तलेः परिव्रज्याया उपादानैः पञ्चमुष्टिलोंचविरचनावसरे प्रसरत्पवने प्रेरितागतां सस्थूललहलहायमानामानमूर्धजविलोकनानन्दितपुरंदरप्रार्थनाक्षणरक्षितैकमुष्टिमस्तकप्रशस्तकुन्तलहस्तेन न्यकृता तिरस्कृता सती स्वयमात्मना अनुनेतुमात्प्रभु प्रसादयितुं वा श्रिते प्रकीर्णकपलयाविव ॥
आतपत्रत्रयी यत्र रेजे विभोः क्षमाम्बरोद्दयोतकृत्त्वत्प्रसत्त्याभवम् । मां त्रिलोक्याः पुनोतकं त्वं सृजेतीव वक्तुं त्रिमूर्तिः श्रितोऽयं शशी२० यत्र समवसरणे विभोस्तीर्थनाथस्य आतपत्रत्रया छत्रत्रितयी रेजे विराजते स्म । उत्प्रेक्ष्यते--इत्यमुना प्रकारेण वक्तुं कथयितुं निस्रो मूर्तयः शरीराणि यस्य स त्रिमूर्तिः तादृशोऽयं भगवन्तं श्रितः सेवमान: शशी चन्द्र इव । इति किम् । हे विभो, त्वत्प्रसत्त्या श्रीमत्प्रसादात् अहं माम्बरयोभूनानभसोरुयोतकृत् प्रकाशकर्ना अभवं