________________
काव्यमाला।
परिभोगनिवारणम् एताश्चतुर्थव्रतस्य पञ्च भावनाः । मनोज्ञे शब्दे राग: अमनोज्ञे शब्दे द्वेषः, मनोज्ञे रूपे राग: अमनोज्ञे रूपे द्वेषः, मनोज्ञे गन्धे राग: अमनोज्ञे गन्धे द्वेषः, मनोज्ञे रसे रागः अमनोज्ञे रसे द्वेषः, मनोज्ञे स्पर्श रागः, अमनोज्ञे स्पर्श द्वेषः एताः पश्चमव्रतस्य पश्च भावनाः । संख्यया पञ्चविंशतिर्जाताः । अथ वा एकोनत्रिंशदपि खयमूह्याः । एता भावना वासना यानानि वाहनानि सन्ति । च पुनर्येषां पुरोगामिनः अग्रेगमनशीलाः यशसां श्लोकानां पुजा व्रजा वर्तन्ते । पुनयेषां विश्वे त्रैलोक्येऽपि स्फूर्जन्तो वाद्यमाना अमारेजीवदयायाः शिष्टय: शिक्षणानि आज्ञा वा त एव - तद्रूपा वा पटहा आनकोद्धोषणानि निःखाननिरचना वा, । पुन: मोह आदियेषां । तथाविधा अरयः क्रोधमानमायालोभमनोभवमिथ्यात्वाद्याः शत्रवः तान् ध्वंसन्ति निघ्नन्तीत्येवंशीला मोहाद्यरिध्वंसिनः सन्तीति वैरिविजयकारिणः । पुनर्थ सार्वभौमाश्चक्रवतिन इव अनिशं निरन्तरं प्राची-आग्नेयी-अपाची-नैर्ऋती-प्रतीची-वायवी-कौबेरी-ऐशानीपातालभुवन-ब्राह्मीलक्षणानां दशानां दिशामाशानाम् । 'दशदिगन्तजिता रघुणा यथा' इति: रघुवंशे । साम्राज्यं सुरासुरनराराध्यत्वादाधिपत्यं दधते बिभ्रते। पुनर्ये कुमुदिनीकान्ताः कैरविणीवल्लभाश्चन्द्रा इव श्वेतैरुज्ज्वलैरंशुकैर्वस्त्रैः । साथै कः । किरणैश्च । 'वरुणगृहिणीमाशामासादयन्तममुं रुची निवसयसि च यांशभ्रान्सक्रमेण निरंशुकम्' इति नैषधे । 'कान्तिहीनं च वस्त्रहीनं वा इति तद्वृत्तिः । शालन्ते शोभन्ते इत्येवशीलाः । श्वेताम्बरा इत्यर्थः ॥ इति खसंयमसमृद्धि निरूपणम् ॥
श्रीरामे भरतेनेव भक्तेन स्वामिनि त्वया ।
इदं यदुच्यते सर्व तदश्चत्यौचिती यतः ॥ १५३ ॥ हे भूपते, श्रीरामे श्रिया बलभद्रत्वलक्ष्म्या, अथ वा श्रिया पाथोधिपुत्र्या लक्ष्म्या, अवतारत्वात्सीतया । यथा नारायणो रामरूपेणावतीर्णस्तथा लक्ष्मीरपि जानकीकायेनावतारमादत्तवतीति शैवसमयः । तया युक्तः रामः कौसल्यानन्दनस्तस्मिन् श्रीरामचन्द्रे भरतेनेव कैकेयीतनुजेनेव खामिन्यकबरनृपे भक्तेन सेवाभक्तेन त्वया भवता इदं गजाश्वरथस्वर्णादिप्रदानं सर्व यदुच्यते कथ्यते तत्सर्वं त्वयि श्रीमति विषये औचिती योग्यतामश्चति गच्छति । युक्तमेवेत्यर्थः । यतः शास्त्रे प्रोक्तमस्ति तदनेतनकाव्येनैव निर्दिशति ॥
उपकर्तु जलदा इव परपुष्टा इव पुनः प्रियं वक्तुम् ।
स्नेहितुमिव दृक्पद्माः प्रायः प्रभवन्ति भुवि सुजनाः ॥ १५४ ॥ हे भूमीपाल, जलदा मेघा इव उपकर्तुं जगतोऽप्युपकारं कर्तुम् , पुनः परः काकैः पो. ष्यन्ते स्म इति परपुष्टाः कोकिला इव प्रियं मृष्टं वक्तुं भाषितुम् , पुनः दृक्पद्मा नयननलिनी इव । कमलनलिनपद्मारविन्दशब्दाः पुनपुंसकलिङ्गयोः । स्नेहितुं स्नेहं मैत्र्यं कर्तुं प्रायो वाहुल्येन भुवि पृथिव्यां विषये सुजना उत्तमजनाः प्रभवन्ति समर्थीभवन्ति ।