________________
११ सर्गः] हीरसौभाग्यम् ।
५३३ मुक्तास्वर्णमणीगणाः पुनरमी येषां मुनीनां गुणा ___ यानान्यद्भूतभावनाश्च यशसां पुञ्जाः पुरोगामिनः ॥ १५१॥ विश्वस्फूर्जदमारिशिष्टपटहा मोहाद्यरिध्वंसिनः ___ साम्राज्यं दधतेऽनिशं दशदिशां ये सार्वभौमा इव । ये श्वेतांशुकशालिनः कुमुदिनीकान्ता इव क्ष्मापते
ते प्राप्ताखिलकामिता इव वयं नाशास्महे किंचन ॥ १५२ ॥ हे मापते खान, प्राप्तानि सर्वात्मना लब्धानि अखिलानि समस्तानि कामितानि वाञ्छितानि मानसिकवाचिककायिककामा यस्तादृशा इव ते वयं किंचन किमपि नाशास्महे न कामयामहे । ते के । येषामस्माकं प्राणातिपात-मृषावाद-अदत्तादान-मैथुन-परिग्रहविरमणलक्षणानि पञ्च महाव्रतान्येव वाहाः पट्टजात्यतुरङ्गाः सन्ति । पुनयेषां क्षान्यादयः क्षमा-आर्जव-मार्दव-निर्लोभतारूपमुक्तिः तपः-संयम-सत्य-निष्कपटतारूपशाच-अकिंच ब्रह्मचर्यलक्षणा दशविधसाधुधर्माभिधानाः करिण: पट्टगजेन्द्रा विद्यन्ते । पुनर्येषां पार्श्व संनिधाने सदा निरन्तरं नवद्वय मिता नवानां नवसंख्यानां द्वयं युगलमेतावता अष्टादश तेन मिताः प्रमाणीकृताः । 'नवद्वयद्वीपपृथग्जयश्रियाम्' इति नैषधे । सहस्रा दशशतानि । सहस्रशब्दः पुंक्लीवलिङ्गे । शीलाङ्गा इत्याख्या नाम येषां तादृशा रथाः एतावता अष्टादशसहस्रा: शीलाङ्गरथा वर्तन्ते । पुनर्येषां मुनीनां साधूनां सप्तविंशतिसंख्याका गुणाः । यथा-षण्णां प्राणातिपात-मृषावाद-अदत्तादानमैथुन-परिग्रह-रात्रिभोजन विरमणलक्षणानां व्रतानां परिपालनम् , तथा षण्णां पृथ्वीजल-अनल-वायु-वनस्पति-त्रासलक्षणानां कायानां रक्षा, तथा पश्चानां श्रवण-नयनघ्राण-रसन-स्पर्शननाम्नामिन्द्रियाणां निग्रहः, निर्लोभता, क्षमा, भावसत्यक्रिया, विशुद्धिता, मनोवचनकायानां जयः, संयमयोगयुक्तता, शीतातपादिवेदनासहनम् , उपसर्गसहनं चेति मुक्तास्वर्णमणीगणाः मौक्तिककाञ्चनरत्ननिकरा आसते । पुनर्येषामद्भुता आश्चर्यकारिण्यः द्वादशसंख्याका भावनाः अनित्य-अशरण-संसार-एकत्व-अन्यत्व-अशौच-आश्रव-संवर-कर्म-निर्जर-अधर्मस्वाख्यातता-बोधिलक्षणाः । अथ वा पश्चानां महाव्रतानां पञ्चपञ्चसं. ख्याभिः पञ्चविंशतिर्भावनाः। यथा मनोगुप्ति-दयासमिति-आदाननिक्षेपासमिति-एषणासमिति-दृष्टान्नपानग्रहणम् एताः प्रथमव्रतस्य पञ्च भावनाः, तथा हास्यविरति-लोभविरति-भयप्रत्याख्यान-क्रोधप्रत्याख्यान-आलोच्यभाषणम् एता द्वितीयव्रतस्य पश्च भावनाः । आलोच्यावग्रहयाच्ञा, अभीक्ष्णावग्रहयाच्या, देशकालापेक्षया एतावन्मात्रावग्रहयाचना, समानधार्मिकेभ्यः सकाशादवग्रहयाचनम्, अनुज्ञापितानपानभोगः, एतास्तृतीयव्रतस्य पञ्च भावनाः । स्त्रीषण्डपशुमद्वेश्मस्त्रीभुक्तासनकुड्यान्तरत्यजनम्, सरागस्त्रीकद्वाविवर्जनम्, पूर्वक्रीडितभुक्त्यादिस्मृतिनिषेधनम्, स्त्रीणां रम्याङ्गावयवावलोकनखाङ्गनीनोद्वर्तनादिसंस्कारनिराकरणम्, प्रणीतगलस्नेहविन्दुकातिरसोन्मादकद्रव्यबहुलानपान