________________
४९०
काव्यमाला। नयन् दीपयन्वा । उत्प्रेक्ष्यदे-तनूमान् शरीरयष्टिं बिभ्राणः साधुधर्म इव यत्याचारः किमु । 'धर्मो यमोपमापुण्यखभावाचारधन्वसु । सत्सङ्गे हन्यहिंसादौ न्यायोपनिषदोरपि॥' इति । 'धर्म दानादिके' इत्यनेकार्थः ॥
असातस्य लेशोऽपि तेनैकपद्यां यथावाप्यते नात्मना ब्रह्मणीव । शिवानामिवावासमत्रानयेतां भवन्तौ ततः सूरिसारङ्गराजम् ॥ १७ ॥
हे दूतौ, भवन्ती तथा तेन प्रकारेण ततो गन्धारनगरतस्तं हीरविजयनामानं सू. रिष्वाचार्येषु सारङ्गराज कण्ठीरवमत्र मत्पार्श्व आनयेताम् । उत्प्रेक्ष्यते-शिवानां सर्वकल्याणानामावासं वासस्थानकमिव । तथा कथं येन प्रकारेण तेन सुरिणा एकपा गन्धारफतेपुरयोरन्तरालमार्गे । ‘पदव्येकपदी पद्या पद्धतिर्वमवर्तनो' इति हैम्याम् । असातस्य दुःखस्य लेशोऽप्यंशोऽपि नावाप्यते न लभ्यते । केनेव । आत्मनेव । यथा मुक्तात्मना ब्रह्मणि मोक्षे दुःखांशो न प्राप्यते। 'क्षेत्रज आत्मा पुरुषः' इति हैम्याम् ॥
मदीयानुगः साहिबः खान आस्ते हितैषी पितेवाङ्गिनां गुर्जरेषु । . ददातां युवां तस्य निःशेषवाच्यं दधानं स्फुरन्मानमेतन्मदीयम् ॥१८॥ हे दूती, गुर्जरेषु धरित्रीजनपदेषु मध्ये मदीयानुगो मम सेवकः साहिब: साहिबनामा खान: । 'खान' इति नाम यवनजाती प्रसिद्धम् । सामन्त इत्यर्थः । आस्ते विद्यते । किंभूतः । अङ्गिनां प्राणिनां पितेव जनक इव हितमायतावभीष्टमिच्छत्सभिलषतीत्येवंशीलो हितैषी इष्टाभिलाषुकः । हे दूतौ, एतन्मया भवतोहस्ते समय॑माणं मदीयं मम संबन्धि स्फुरन्मानम् । राजल्लेखमित्यर्थः । 'फरमान' इति यवनभाषया लेखाख्या । तस्य साहिबखानस्य ददातामर्पयताम् । स्फुरन्मानं किं कुर्वाणम् । निःशेषं समस्तमपि वाच्यमुदितं(दन्तं) मम हृदयहार्द दधानं धारयत् ॥
यदास्तेऽन्य आत्मेव मे देहभेदात्स कर्ता ततः सर्वमस्मद्विधेयम् । निवृत्ते निगद्येति भूसार्वभौमे परां प्रीतिरन्तर्दधाते स्म दूतौ ॥ १९ ॥
हे दूती, तौ अन्तश्चित्ते परां प्रीतिं दधाते स्म दधतुः । कस्मिन्सति । भूसार्वभौमे अकब्बरे इति निगद्य भाषित्वा निवृत्ते विरामे सति । इति किम् । यत्कारणात् स साहिबखान: मम देहस्य शरीरस्य भेदात्पार्थक्यादन्यः अपरः आत्मा जीव इवास्ते विद्यते ततः कारणात्स साहिबखान: सर्व समस्तमप्यस्मद्विधेयमस्माकीनं कार्य कर्ता करिष्यति ॥ इति दूतयोः साहेः सूरिसमाकारणादेशः ॥
ततो दूतयुग्मं क्षमापूषलेखं प्रतस्थे समादाय तत्संनिधानात् ।। अनूनां तनूमुद्वहन्नेतदीयाभिलाषः प्रसर्पन्प्रतीव व्रतीन्द्रम् ॥ २० ॥ . ततो भूपालादेशानन्तरं दूतयुग्मं संदेशहारकद्वन्द्वं तस्य साहेः संनिधानात्समीपाप्रतस्थे प्रचचाल । किं कृत्वा । क्षमायाः पृथिव्याः पूषा भावान् तस्य लेखं स्फुरन्मानं