________________
१० सर्गः ]
हीरसौभाग्यम् ।
४५३
धान्देवान् संप्रीणयन्ति तोषयन्ति । समीहितदानादिना प्रीता हि देवा अभीष्टसिद्धिं
ददते इत्यर्थः ॥
सर्वानुवाद इव यन्महसां विहाय :पान्थः किमु प्रतिनिधिर्हुतभुक्पयोधेः ।
वज्रोऽनुकार इव कायलता हुताश
पङ्क्तिः पुनः सहचरस्तडितां विलासः ॥ ५६ ॥
यन्महंसाम् अकब्बरसाहेर्भूयसः प्रतापानां विहायः पान्थो गगनाध्वनीनः सहस्ररश्मिः सर्व समस्तरूपमनुवदतीति सर्वानुवादः पुनरप्यभिधानमिव । पुनः पयोधेः स•मुद्रस्य हुतभुक् ज्वालाजिह्वो वडवामुखः प्रतिनिधिः प्रतिबिम्बमिव । पुनर्वज्रो वासवहस्तदम्भोलिः अनुकारः सादृश्यमिव । पुनर्हुताशानां पावकानां पतिर्मालिका कायलता शरीरयष्टिरिव । पुनस्तडितां विद्युतां विलासो विजृम्भितं सहचरः सखा । 'स्निग्धः सहचरो मित्रं सखा' इति हैम्याम् ॥
ऐश्वर्यमीशत इव प्रभुतां सुरेन्द्रा
दोजो रवेर्निधिपतेश्च चदान्यभावम् ।
भोगीश्वरादवनिगौरवसाहसित्व
मादाय योऽम्बुजभुवा निरमायि भूमान् ॥ १७ ॥
यो भूमान् अकब्बरसाहिः अम्बुजभुवा नारायणनाभिनीरजजन्मना ब्रह्मणा । उत्प्रेक्ष्यते - ईशत ईश्वरादैश्वर्यमीश्वरताम् । तथा सुरेन्द्राद्देवनायकात्प्रभुतां स्वामितां सामर्थ्य वा । पुनः रवेः सहस्रकिरणादोजः प्रतापम् । 'यदोजसो यद्यशसः स्थिताविमौ ' इति - नैषधे । भोजः शब्देनात्र प्रतापः । च पुनर्निधिपतेर्वैश्रवणाद्वदान्यभावं दानशीलताम् । पुनर्भोगीश्वरात् शेषनागनाथादव ने र्मेदिनीमण्डलस्य गौरवस्य साहसित्वं सहनशीलताम् । 'सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वाच्यौ' । 'सासहिः वावहिः चाचलि: पापति:' इति प्रक्रियाकौमुद्याम् । आदाय गृहीत्वा निरमायि निष्पादित इव ॥ इत्यकब्बरसाहियशः प्रतापदातृतादिगुणाः ॥
क्षोणीक्षितः क्षितिरुहानिव वायुरंहः प्राच्याननामयदकब्बर भूमिपालः ।
तस्माद्दिशो जगृहिरेऽपि च दाक्षिणात्य - क्ष्माभृद्भरेण शरभादिव सिन्धुरेण ॥ १८ ॥
अकब्बरनामा भूमीपाल: क्षितिरक्षिता प्राच्यान् पूर्वदिग्भवान् पूर्वदिक्संबन्धिनो वा क्षोणीक्षितः पार्थिवान् । 'महीक्षित्पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः' इति हैम्याम् ।