________________
काव्यमाला।
अमनमद्यदमिमात्ययशोलुलाय___ मालोक्य भीतिविवशस्य हरेर्हयस्य । संत्रस्यतो वदननिर्यदमन्दफेनै
र्योतिष्मतीव समभूत्पुरुहूतपद्या ॥ ५४॥ हरेरिन्द्रस्य हयस्य तुरगस्योच्चैःश्रवसो वदनान्मुखगहरानिर्यद्भिरघोभूमौ निष्पतद्भिरम-- दैबहुलै: फेनैर्मुखकफैरश्वमुखलालाभिः कृत्वा । उत्प्रेक्ष्यते-पुरुहूतपद्या शक्रमार्गो गगनम् । ज्योतिष्मती ज्योतींषि ग्रहनक्षत्रतारका विद्यन्ते यस्यां तादृशी किमभवत्संपन्नेव। हयस्य किंभूतस्य । भीत्या भयेन विवशस्य विह्वलस्य व्याकुलस्य । अत एव किं कुर्वतः । संत्रस्यतः अकस्मान्निजजिघांसुदर्शनोद्भूतभूरिभीतिवशतो नश्यतः । किं कृत्वा। अभ्रे आकाशे भ्रमन्तं परितः पर्यटन्तं यस्याकब्बरस्याभिमातीनां विरोधिनामयशोऽपकीर्तिरेव श्यामवर्णत्वाल्लुलायं महिषमालोक्य समीक्ष्य । महिषो हि तुरगद्वेषी । यतः-'रजखलो वाहरिपुः' इति हैम्याम् । तथा जिनजन्माभिषेके देवागमे-वाजिस्थं कासरारूढः' । तथा 'हयद्विषवष्कयिणीपयःसुतम्' हयद्विषत्या महिन्या किंभूताया बष्कयिण्याः प्रौढाङ्गजाया यत्पयः सरसदुग्धं तस्य सुतं दधि । दु. ग्धोद्भवात्पयः सुतमिति । तथा 'रामालिरोमावलिदिग्विगाहिध्वान्तायते वाहनमन्तकस्य । यत्प्रेक्ष्य दूरादपि बिभ्यतः खानश्वान्गृहीत्वापसृतो विवखान् ॥' द्वयमपि नैषधे ॥
पञ्चापि देवतरवोऽधरिताः स्वदान___ लीलायितैर्वसुमतीकुसुमध्वजेन । संभूय काञ्चनशिलोच्चयचूलिकायां
किं मन्त्रयन्त्यवनिवृत्रहणं विजेतुम् ॥ १५ ॥ वसुमत्या वसुंधराया अतिरूपरामणीयकेन कुसुमध्वजेन श्रीनन्दनेन । 'निषधवसुधामानां कस्य प्रियाङ्कमुपेयुषः' इति नैषधे । 'सर्वातिशायिशरीरसौन्दर्यामीस्मरेण' इति तद्वृत्तिः । खदानस्य निजवितरणस्य लीलायितैर्विलसितैरधरितास्तिरस्कृताः पराभूताः सन्तः पश्चापि पश्चसंख्याका अपि कल्प-पारिजात-मन्दार-हरिचन्दन-संताननामानो देवतरवः सुरद्रुमाः । उत्प्रेक्ष्यते-काश्चनशिलोच्चयस्य वर्णशैलस्य मेरोचूलिकायां शिरःशिखरे संभूय एकत्र मिलित्वा सर्वेऽप्येकीभूय अवनेर्भूमेस्त्रहणं पुरंदरमकबरसाहिं विजेतुमभिभवितुं किं मत्रयन्ति रहसि आलोचनमिव कुर्वन्ति । 'रहस्यालोचनं मन्त्रः' इति हैम्याम् । तथा पाठान्तरम्-तत्र कूलंकषाणां नदीनां प्रणयी पतिः समुद्रः सनेमिः स्यन्दनचक्रधाराकारो यस्याः सा भूमिस्तस्यास्तमीविवोदुः रजनीरमणस्य । अकब्बरभूपतेरित्यर्थः । विजिगीषयेव खाभिभवविधातुर्विजेतुमिच्छयेव अनिमि