________________
९ सर्गः] - हीरसौभाग्यम् ।
४२५ पान्थानिव महानन्दपुटभेदनपद्धतौ ।
दीक्षयामास सूरीन्द्रोऽनेकानिभ्यतनूभवान् ॥ १४३ ॥ सूरीन्द्रोऽनेकान्परःशतानिभ्यतनूभवान्व्यवहारिपुत्रादीन्दीक्षयामास प्रव्राजयति स्म । उत्प्रेक्ष्यते-महानन्दो मोक्षः स एव पुटभेदनं रत्नयोनिपत्तनम् । रत्नयोनिरिति लोकरूढिः। तथा च रत्नसदृशानां पुरुषाणामुपत्तिस्थानम् । महानन्दे तीर्थकरचक्रवर्तिबलदेवमहामण्डलीकमहीपतिसूरिवाचकमहामुनिप्रमुखा रत्नेभ्योऽभ्यधिकानां महापुरुषाणामुत्पत्तिस्थानकं ततः पत्तनोपमानम् । तत्य पद्धतौ मार्गे पान्थान् पाथिकानिव ॥
शाखाप्रशाखाश्रेणीभिराकीर्णः श्रमणाग्रणीः ।
व्यभावट इव च्छायाच्छन्नः सेव्यश्च राजभिः ॥ १४४ ॥ श्रमणानां साधूनामग्रणीः पुरोगो हीरविजयसूरिः वट इव न्यग्रोधपादप इव व्य. भात् । किंभूतः । शाखा विमलविजयसागरसुन्दरादिका प्रशाखा आनन्दहर्षसौभा. ग्यविशालकुशलादिकास्तासां श्रेणीभिराकीर्णः परिवृतः । पुनः किंभूतः । छायया शोभया छिन्नो निचितः सहितः । पुनः किंभूतः । राजभि विनिभूतोपचाराद्रपाल: सेव्यः उपासनीयः । वटस्तु स्कन्धनिमृता: शाखास्ताभ्यः पुनर्निर्गताः प्रशाखाखास राजिभिर्व्याप्तो भरितः । तथा छायया प्रतिच्छायिकयाश्चितः सिश्चितः । तथा रा. जभिर्यक्षैः सेवनीयः । यक्षाणां वटवासित्वात् । 'यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि' इति हैम्याम् ॥
समस्थापयत्तीर्थसार्थाननेकाननेकान्तवादाम्बुजाम्भोजबन्धुः । महीमण्डले रन्तुमुत्कण्ठितायाः स्फुरत्केलिगेहा इव ब्रह्मलक्ष्म्याः ॥१४॥ एकान्तेन निश्चयेन वदनमेकान्तवादो न एकान्तवादो यत्र तदनेकान्तवादं जिनशासनम्। यतः-'स्याद्वादवाद्याईतः स्यात्' इति हेमाचार्योक्तिः । स एव तदेव वाम्बुजं सरसीरुहं तत्र तद्विकाशने अम्भोजबन्धुः पद्मबान्धवः सहस्ररश्मिः सूरीन्द्रः अनेकान शतशः तीर्थानां पापसंतापापनोदस्थानानां सार्थान् समूहान् । यद्यपि हैम्याम् 'संघसार्थौ तु देहिनाम्' इत्युक्तम्, तथापि हेमचन्द्रेणैवाने कार्थे प्रोक्तम्- 'सार्थो वृन्दे वणिग्गणे इत्युत्पन्नभेदात् , तथा 'पदार्थसार्थ-' इत्यपि दर्शनात् , अनुप्रासत्वाद्वा लक्षणयापि समूहार्थ एव तसादानीतः । समस्थापयत्संस्थापयति स्म । उत्प्रेक्ष्यते-महीमण्डले पृथ्वीपीठे रन्तुं क्रीडितुमुत्कण्ठिताया उत्सुकिताया ब्रह्मलक्ष्म्या मुक्तिश्रियाः । 'शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्मनिर्वृतिः' इति हैम्याम् । स्फुरन्तः निखिलसुदृग्दृग्गोचरीभावं भजन्तः केलिगेहा विलाससौधानीव । सूरिस्थापितानां तीर्थानो प्राथेवीपीठस्थायुकत्वात् अथ च ब्रह्मलक्ष्म्यास्त्रैलोक्योपरितभूमौ स्थायित्वाच्च महीमण्डले क्रीडा. काङ्केति ॥ इति हीरविजयसूरिधर्मकृत्यानि महिमसंपदः ॥