________________
४२४
काव्यमाला ।
1
श्रीमति अद्वैतवैभवभातिनि हीरविजयनानि सूरिषु पुरंदरे मासवे मयां महीमण्डले खैरं स्वेच्छया न पारतन्त्र्याद्विहरति विहारं विदधति सति दानं द्रबिणादिविश्राणनं मदाम्भव वर्षतीत्येवंशीलस्तत्तथा । 'दानं विश्राणनमदाम्भसोः' इत्यनेकार्थे । दानवर्षणस्वभावेन भव्यत्रजेन भविकजन्तुजातेन अनेकान्बहून्दुःस्थानर्थिनो वा पान्ति दारिद्र्यादुद्धरन्ति सुखी कुर्बम्ति च तेऽनेकपाः मतङ्गजाश्च तद्वदाचरितं स्रामयोनिसदृशीभूतं च ॥ पितेव सूनुना साकं कम्माङ्गजयतीन्दुना ।
पत्तनं पावनीच हीरसूरीश्वरः क्रमात् ॥ १३९ ॥
हीरसूरीश्वरः क्रमादनुक्रमाद्विहारपरिपाट्या स्वतन्त्र ससुखविचरणात् पत्तनमणहिलवाटकाभिधानपत्तनं पावनी के पवित्रीकरोति स्म । कथम् । साकं सह । केन कस्मात् । कम्मासाधोरङ्गजो नन्दनः स एव यतिषु वाचंयमेषु यतीनां मध्ये आह्लादकत्वाद्वामृत स्वादिन्दुरिव । इन्दुराचार्येणेत्यर्थः । क इव । पितेव । यथा जनकः सूनुना सार्धं पत्तनादिपुरं समेति ॥
कृत्वा क्रमादनूचानपदनन्दि मुनीश्वरः ।
देशं स्वसूनो राजेव गणं तस्य वशं व्यधात् ॥ १४० ॥
मुनीश्वरो हीरविजयप्रतिबासवः गणं तपागच्छं तस्य बिजय सेनसूरेर्वशमायतं व्यधाच्चकार । किं कृत्वा । क्रमादनुक्रमेण । हेतौ तृतीया पञ्चमी च वाच्येति तृतीयार्थः । पूर्वसूरिपरिपाटीतः अनूचानपदस्याचार्यपदस्य नन्दि द्वादशावर्तषन्दनानुज्ञानादिविधिं कृत्वा विधाय । क इव । राजेव । यथा सकलभेदिनी मण्डलाखण्डको निजनन्दनस्य देशं खजनपदं बशमधीनं विधत्ते ॥
प्रभोर्नन्दिम हेमराज मीश्वरो मुदा ।
अमानि मामबै: श्रीद इषामितधनं ददत् ॥ १४१ ॥ प्रभोविंजयसेनसूरेर्नन्दिमहे आचार्यपदानुज्ञावन्दन कदानादिमहोत्सवे हेमराज नाम मन्त्रीश्वरः सचिवो मानवैर्जानपदैः पौरैर्नागरिकैश्च मनुजैः श्रीदो वैश्रवण एव अमानि विज्ञातोऽवबुद्धः ॥ किं कुर्वन् । मुदा प्रमोदेन अमितं प्रमाणातीतमगणितं धनं द्रविणं ददयच्छन् ॥ इति बिजयसेनसूरिनन्दिः ॥
प्रत्यतिष्ठत्पेरोलक्षा आर्हतीः प्रतिमाः प्रभुः ।
कल्पितानल्पसंकल्पाः कल्पसाललता इव ॥ १४२ ॥
प्रभुहरविजयसूरिः पैरोलक्षाः लक्षशः आर्हतीजैनीः प्रतिमा मूर्तीबिम्बानि प्रत्य तिष्ठत् प्रतितिष्ठति स्म । उत्प्रेक्ष्यते - कल्पिताः प्रदत्ताः पूर्णीकृता अनल्पा अनेके भूयस्तराः संकल्पा मनोभिलषितानि याभिस्तादृशीः कल्पसाललताः कल्पद्रुमवल्लींरिव । ' कल्पद्रुमलताः' इति सोमसौभाग्यकाव्ये ॥
१. अत्र च १२३ संख्याक श्लोक टिप्पणिवत् 'परस्त्क्षा' इति भवेत्.