________________
९ सर्गः] हीरसौभाग्यम् ।
४१९ जनारब्धमहामहैः सार्धे जैनी जिनसंबन्धिनी प्रतिमां मूर्ति प्राणमत् प्रणमति स्म । क इव । जयीव । यथा निखिलदिझ्यालनिर्जयनशीलः पृथिवीपालो लिजमातरं खजननों प्रणमति ॥
कलौ स्वकामिताप्राप्तेर्लोकानालोक्य सीदतः । पूर्णकामांश्चिकीर्षु तान्खः सुरद्रुमिवागतम् ॥ ११७ ॥ खोदयाय कलिं लुप्त्वा किमु कर्तुं कृतं युगम् । नक्तंदिनमिवादित्यं धर्म मूर्तमिवोद्गतम् ॥ ११८ ॥ चतुर्थारकवल्लोकान्पञ्चमेऽप्यरकेऽथ वा । अवतीर्णमिवोद्धर्तु कृपया गौतमं पुनः ॥ ११९ ॥ . तपागच्छश्रिया लीलाललाममिव जङ्गमम् ।
श्रीहीरविजयं प्रीतेरैषीदेष निषेवितुम् ॥१२०॥ (कलापकम्) एष मेघजीऋषिः श्रिया सूरिलक्ष्म्या कलितं हीरविजयम्। श्रीहीरविजयसूरिमित्यर्थः । प्रीतेरानन्दात् । विशुद्धधर्मप्ररूपकत्वेन गुरुस्नेहाद्वा निषेवितुमुपासितुमैषीद्वाञ्छति स्म । उत्प्रेक्ष्यते-तपागच्छश्रिया तपोगणलक्ष्म्या जङ्गमं संचरणशीलं लीलाललामं शृङ्गारकृते विधृतं कनकतिलकमिव । ललामशब्दो नकारान्तोऽकारान्तोऽप्यस्ति । 'ललामवल्ललामश्चादन्तः पुंक्लीबलिङ्गे नकारान्तः क्लीव एव' इत्यनेकार्थः । अथ हीरविजयसूरि वि. शिनष्टि । उत्प्रेक्ष्यते-खः खर्गलोकादागतं भूमीमण्डलेऽवतीर्णे सुरहूँ कल्पवृक्षमिव । कि कर्तुमिच्छम् । तान् लोकान् पूर्णकामान् इच्छापूरणपर्यन्ताधिगतसमस्तखमनोभिलाषांश्चिकीर्षु कर्तुमिच्छम् । किं कृत्वा । कलौ कलिनानि युगे पञ्चमारके स्वेषामात्मनां कामितानामभीष्टानामप्राप्तेरनासादनात्सीदतः दुःखीभवतः सकलान् यावद्वसुधावलयवतिनो लोकानालोक्य विज्ञायेत्यर्थः । पुनरुत्प्रेक्ष्यते--मूत शरीरवन्तमङ्गीकृतकाय वा उद्तं प्रकटीभूतं धर्म जैनधर्ममिव । किं कर्तुम् । नक्तं दिनमहोरात्रम् । निरन्तरमित्यर्थः । खम्यात्मन उदयाय चतुर्भिरंशस्तिरोभवनाय चतुरङ्गतया प्रादुर्भवाय वा कलिं प्रबलतापसंतापास्पद कलियुगं लुप्त्वा विलुप्य निखिलावनीमण्डलानिकास्य कृतं युगं प्रथमसमयं कतु विधातुम् । कृतयुगे हि धर्मश्चतुरङ्गः स्यात् । यदुक्तम् नेषधे-'पदैश्चतुर्भिः सुकृते स्थिर्गकृत कृतेऽमुना के न तपः प्रपेदिरे' इति । कमिव ! आदित्यमिव । यथा भास्करः नक्त निशां विलुप्य दिनं वासरं कर्तुमुद्गच्छति । पुनरुत्प्रेक्ष्यते-पञ्चमे दु:समानागन्यप्यरके कृपया कारुण्यरससमुद्रतया लोकाजगजन्तून् भविकजनान्वा उद्धर्तु भवविकट. वटादुद्धत्य मोक्षे महानन्दपदे नेतुं प्रापयितुं पुनर्द्वितीयवारमवतीर्ण गृहीतावतारं गौतममिव श्रीमन्महावीरप्रथमशिष्यं गणधराग्रगण्यमिव ॥ चतुर्भिः कलापकम् ॥