________________
काव्यमाला।
प्रतिमा बिम्बमर्चा दृशोलोंचनयोः पथिकी विद्यमानापि पान्थी गोचरा नाभवत् । तत्र निमित्तं तु महांह एव ॥
ऐहिकामुष्मिके सौख्ये दूरेऽत्र स्थायिनो मम ।
नीरतीरे सरःपङ्के निममस्येव दन्तिनः ॥ ११३ ॥ अत्र भवपरम्परापारावारप्रतिहरिप्रसरत्पयःपूरान्तरनिपतनप्रस्फुरन्महावर्तभूते लु. म्पाकमते. तिष्ठति चिरं स्थिति विरचयतीत्येवंशीलस्य स्थायिनो मम मेघजीनामात्मनः इहलोकपरलोकसंबन्धिनी सौख्ये शर्मणी दूरे विप्रकृष्टे वर्तेते। भगवदाज्ञाविरोधेनोद्भूतभूयस्तरदुरन्तदुरितोदयप्रादुर्भूततिर्यङरकाद्यनन्तदुर्भवपरम्परोपलम्भतः शर्मलेशो. ऽपि कुत्रस्थः सत्त्वः प्राप्नुयादिति । कस्येव । दन्तिन इव । यथा सरःपङ्के निदाघानिदाघकृद्धर्मद्युतितीव्रतरकरनिकरशुष्काल्पीयःसलिलपल्वलबहुलजम्बाले निममस्य सर्वै. रप्यङ्गोपाङ्गै—डित्वा स्थितस्य किंचिल्लक्ष्याङ्गस्य नीरतीरे पानीयप्रतीरे अतिदूरे भवतः ॥
चेतसीति विचिन्त्यासौ पण्डावानिव पण्डितः। कैश्चिच्चालोचचतुरैरालोच्य सचिवैरिव ॥ ११४ ॥ स पल्वलमिवामेध्यं हंसो लुम्पाकनायकः।
अत्याक्षीपक्षमात्मीयं विनेयस्त्रिंशता समम् ॥११५॥ (यामम्) स मेघजीनामा लुम्पाकानां नायक: खामी त्रिंशता त्रिंशत्संख्यैर्विनेयैः शिष्यैः सममात्मीयं लुम्पाकसंबन्धिनं पक्षं लुम्पाकमतं गच्छं वा अत्याक्षीजहाति स्म । क इव। हंस इव । यथा राजमराल: पुरीषानेकास्थिपञ्जरविकटकण्टकठिकरकबहुजलं बालशेवालकलितमत एवामध्यमपावनं वायसनिवासोत्पादशयनादिशकुन्तसंतानं पल्वलं त्यजति । किं कृत्वा । इत्यमुना प्रकारेणार्थात्खयं तथा सिद्धान्तविरुद्धवचनभाषणभीरुकवा. भिलषितज्ञापरगीताथैश्च चेतसि खस्यैव चेतसि वेत्ति । विचिन्त्य चिन्तयित्वा । विचायेत्यर्थः । क इव । पण्डावानिव । यथा तत्त्वानुगतमतिमान् पण्डितो मेधावी विचिन्तयति । सम्यग्देवगुरुधर्मादितत्त्वं विचारयति । च पुन: सचिवैरमात्यैरिव आलोचेषु मन्त्रणेषु चतुरैनिपुणैः कैश्चिदात्मीयैः सिद्धान्तवचनभाषणातिभीरुकखाभिमताभिप्रायज्ञापरगीताथैश्वालोच्य विचारयित्वा च ॥ युग्मम् ॥ इति मेघजीमुनेर्लुम्पाकमतत्यजनम् ॥
निर्जित्य स्वमतैश्वर्यस्मयं तौर्यत्रिकोत्सवैः ।
प्राणमत्प्रतिमां जैनी जयीव निजमातरम् ॥ ११६ ॥ स मेघजीऋषिः खस्यात्मनो मतस्य लुम्पाकवर्गस्य ऐश्वर्यमाधिपत्यं तस्य स्मयमहंकारं गर्व निर्जित्य पराभूय । तदैश्वर्य मुक्त्वेत्यर्थः । अथवा 'निर्मुच्य' इति पाटो वा । तत्र निःशेषेण मुक्त्वा संबन्धमात्रमप्यरक्षयन् त्यक्त्वा । 'निर्मुक्तः पञ्चदेह्या परमसुखमयः । प्रास्तकर्मप्रपश्चः' इति पञ्चमीस्तुतौ । तौर्यत्रिकोत्सवर्गीतनृत्यवाद्यत्रिकेणोपलक्षितश्राद्ध