________________
९ सर्गः]
हीरसौभाग्यम् ।
प्रत्यूषे प्रभातसमये प्रोषितं द्वीपान्तरं प्रति प्रस्थितं मृगाई हरिणलाञ्छनं निजहृदयनायकं कान्तम् । उत्प्रेक्ष्यते-क्षपा निशा किमनुगच्छति पृष्ठे प्रयातीय: किं कृत्वा । नक्षत्राणि उडवः उपलक्षणत्वात्तारका एव तद्रूपा वा मुक्तिका मुक्काफलानि अल्पभारबहुमूल्यानि मौक्तिकानि आदाय गृहीत्वा। किमिव । पाथेयमिव । यथा काचित्रिपुटिका 'वडीनीकरणहार' इति जने प्रसिद्धा दीर्घदर्शिनी नैपुण्यवती स्त्री कथमप्यकस्मात्कारणाद्विशंवलं खवल्लभं कुत्रचिजनपदे प्रस्थितं विज्ञाय खयं सम्यग्मणिमुकादिपाथेय. मादाय तमनुयाति ॥ . वितत्य मायिकीवाने मायां तारामयीं तमी।
क्षणाददृश्यतां निन्ये मन्ये तां दिवसानने ॥ १२ ॥ तमी यामिनी दिवसानने प्रभातसमये मन्ये उत्प्रेक्षे अहमेवं मन्ये मानयामि विमर्श विदधामि वा। क्षणात्क्षणमात्रतां स्वयं प्रपञ्चितां मायां प्रेक्षणरूपकादिरचनाकपटपाटव. मदृश्यतां दृशोरगोचरतां निन्ये लम्भयामास । किं कृत्वा । अभ्रे दशदिक्सीमव्योमम. ण्डले मायिकीव इन्द्रजालिकविद्याविधुरा वनितेव । तारामयीमुपलक्षणादहनक्षत्रप्रचुरां मायां शाम्बरीम् । इन्द्रजालमित्यर्थः । वितत्य विस्तार्य ॥
तमखिन्या विधोः पत्युविरहासहमानया ।
प्रातःसंध्याबृहद्भानौ खतनूः किमहूयत ॥ ५३ ॥ तमखिन्या पीयूषमयूखप्राणवल्लभया विधोश्चन्द्रमसः पत्युः खभर्तुविरहं वियोग न सहते इत्यसहमाना तादृश्या सत्या प्रोद्दामविरहाकुलया विधुवल्लभवियोगं सोढुमसमर्थया भवन्या । उत्प्रेक्ष्यते-प्रातःसंध्या दिवसाननरक्तिमा सैव बृहद्भानुः कृशानुस्तस्मिन् खतनूनिजगात्रलता किमहूयत हुतेव भस्मीकृतेव ॥
तूर्याणां यामिनीयामविरामे ध्वनिरुद्ययौ ।
प्रयाणं सूचयन्प्रातरिव राज्ञो मृगीदृशः ॥ ५४॥ यामिन्या निशाया यामानां चतुर्णा प्रहराणां विरामे अपगमे तुर्याणां वादित्राणां 'नगारा' इति लोकप्रसिद्धानां ध्वनिः शब्दः उद्ययौ प्रादुर्भुतः । उत्प्रेक्ष्यते-राज्ञश्चन्द्रमसो महीपतेर्वा मृगीदृशो निशाया महिष्या वा प्रयाणं प्रस्थानं सूचयन्कथयन्निव ॥ इति रात्रिगमनम् ॥
चक्रे श्रमणशक्रेण विधिर्वैभातिकस्ततः ।
जैत्रं तन्त्रमिवाधृष्यभावद्वेष्यजिगीषया ॥ ५५ ॥ ततो रात्रिगमनानन्तरं श्रमणशक्रेण वाचंयमपुरंदरेण हीरविजयसूरिणा । विभाते विधीयते, विभातस्यायं वा वैभातिकः प्रातःकालसंबन्धी विधिराचारः प्रातरावश्यका. दिकः चक्रे कृतः । उत्प्रेक्ष्यते-अधृष्याणामनाकलनीयानां दुर्धराणां भावानामन्तरङ्गा