________________
४०२
काव्यमाला |
रजनीवियुजां जाने द्विजानामपशापतः । कैरवाक्षी क्षणाद्राज्ञः क्षीणतां प्रतिपेदुषी ॥ ४८ ॥
राज्ञः सुधाधानः नृपतेश्च कैरवाक्षी कुमुदनयना निशीथिनी जाया राज्ञी क्षणात्स्वल्पसमयादेव क्षीणतां क्षयभावमतिकृशी भावम् । अस्थिचर्मावशेषता मित्यर्थः । 'छिन्नोऽदि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः । इति विमृशन्तः सन्तः संतप्यन्ते न ते - विपदा ॥' अत्र क्षीणता तु कलावशेषमात्रेणैव । 'मूलादुच्छिन्नस्योपचय एव नास्ति क्षी णस्य खल्पावशेषस्यैवोपचयः' इति सूक्तोक्तिः । प्रतिपेदुषी प्रपन्ना संप्राप्तवती । उत्प्रेक्ष्यते - रजन्यां निशासमये वियुञ्जन्ति परस्परं वियोगं प्राप्नुवन्तीति तादृशा द्विजाः पक्षिणो रथाङ्गनामानो ब्राह्मणाश्च । 'विहगयोः कृपयैव शनैर्ययौ रविरहविरहध्रुवभेदयोः ।' इति रघुवंशे । तथा वस्तुपालकीर्तिकौमुदीसहोदरे सुरथोत्सवकाव्येऽपि - 'रजनीवि•• युजां पतत्रिणाम्' इति । चक्रवाकानामिति । अपशापतः विरुद्धशपनादिव खाचारनिरतानां ब्राह्मणानां शापो लगति न तु ब्राह्मणब्रुवाणाम् । यतः - ' वृत्तस्था ब्राह्मणा ज्ञेयाः क्षत्रियाः शस्त्रपाणयः । कृषिकर्मकरा वैश्याः शूद्राः प्रेक्षणकास्तथा ॥' इति क्रियया ब्राह्मणत्वं न तु जात्या उत्तराध्ययने 'बम्बचेरेण बंभणे' इति ॥
त्यक्ततारपरीवारा छिन्नध्वान्तकचच्छटा ।
तमी तपखिनीवासीद्दयितेऽस्तमिते विधौ ॥ ४९ ॥
विधौ चन्द्रमसि दयिते भर्तरि अस्तमिते परलोकं प्राप्ते सति तमी त्रियामा । उत्प्रेक्ष्यते - तपखिनी तापसी आसीदिव परिव्राजकेव बभूव । किंभूता : त्यक्तो मुक्तस्तारास्तारका उपलक्षणाद्रहनक्षत्राणि एव परीवारः परिच्छदो यया । पुनः किंभूता । छिन्ना लूना भद्रकारिता ध्वान्तान्यन्धकाराण्येव कचच्छटा केशपाशो यया । योषितो हि भर्तरि मृते शिरः केशान्मुण्डयन्ति ॥
संसिसृक्षुः शशी कान्तां कामगादनुरागवान् ।
इत्यालोकयितुं शङ्के तमी तमनुजग्मुषी ॥ ५० ॥
तमी इन्दुकान्ता शशिनं स्ववल्लभं विधुमनुजग्मुषी पृष्ठे प्रस्थिता पश्चाद्गच्छति स्म । उत्प्रेक्ष्यते — इत्यालोकयितुमित्यमुना प्रकारेण प्रेक्षितुमिव । इति किम् । अनुरागवाननुरतिकलितः । ' रागोऽनुरागोऽनुरति:' इति हैम्याम् । अनुगतो रागो रक्तिमा तेन संयुक्तः । अस्तादिसंग मान्मनागरुणीभूतत्वादिदं विशेषणम् । शशी कां चतुर्षु वर्णेषु अ न्यतरां खेचरीमप्सरसं वा नागाङ्गनां वा । किंनानीं कान्तां स्त्रियं संसिसृक्षुः कस्याः सङ्ग कर्तुमिच्छुः । अगात्कुत्रापि मां विमुच्य गतः । 'निर्वापयिष्यन्निव संसिम्रक्षो:' इति नैषधे ॥
किं पाथेयमिवादाय क्षपा नक्षत्रमुक्तिकाः ।
प्रत्यूषे प्रोषितं कान्तं मृगाङ्कमनुगच्छति ॥ ५१ ॥